मानिन्याश्चरणानतिव्यतिकरे वाप्याम्बुपूर्णेक्षणं
चक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि ॥४४॥
अज्ञानामतितानवं कथमिदं कम्पश्च कस्मात् कुतो
मुग्धे पाण्डुकपोलमाननमिति प्राणेश्वरे पृच्छति।
तन्या सर्वमिदं स्वभावजमिति व्याहृत्य पक्ष्मान्तर
व्यापी वाष्यभरस्तया चलितया निःश्वस्य मुक्तोन्यतः ॥४५॥
पुरस्तन्या गोजस्खलनचकितोऽहं नतमुखः
प्रवृत्तो वलक्ष्यात् किमपि लिखितुं दैवहतकः ।
स्फुटो रेखान्यासः कथमपि स तादृक् परिणतो
गता येन व्यक्तं पुनरवयवैः सैव तरुणी ॥४६॥
कठिनहृदये मुच्ञ भ्रान्तिं व्यलीककथाष्रितम्
पिशुनवचनै दुःखं नेतुं न युक्तमिमं अनं ।
किमिदमथवा सत्यं मुग्धे तया विनिश्चितं
यदभिरुचितं तन्मे कृत्वा मिथे सुखमास्यतां ॥ ४७ ॥
मन्दं मुद्रितपांशवः परिपतझंकारशंशामरुद्
वेगध्वस्त कुटीरकान्तरगतच्छिद्रेषु लब्धान्तराः ।
कर्मव्यग्र कुटुम्बिनीकुचतटस्वेदच्छिदः प्रादृषः
प्रारम्भे निपतन्ति कन्दलदलोल्लासाः पयोविन्दवः ॥४८॥
यीतस्तुधारकिरणो मधुनैव साईम्
अन्तः प्रविश्य चषके प्रतिविम्बवर्ती ।
मानान्धकारमपि मानवतीजनस्य
नूनं विभेद यदसौ प्रससाद सद्यः ॥४९
॥