पृष्ठम्:काव्यसंग्रहः.pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरुशतकं । चिरविरहिणोरुत्कण्ठार्तिश्वीकृतगाचयोर् नवमिव जगज्जातं भूयश्चिरादभिनन्दतोः । कथमपि दिने दीर्घे याते निशांमधिरुढयोः प्रसरति कथा बड़ी यूनोर्यथा न तथा रतिः ॥ ३८ ॥ दीर्घावन्दनमालिका विरचिता हश्चैव नेन्दीवरैः पुष्पाणां प्रकरः स्मितेन रचितो नो कुन्दजात्यादिभिः । दत्तः स्वेदमुचा पयोधरयुगे नार्थ्यो न कुम्भाम्भसा स्वैरेवावयवैः प्रियस्य विशतस्तन्या कृतं मङ्गलं ॥ ४० ॥ कान्ते सागसि शायिते प्रियसखीवेशं विधायागते भ्रान्त्यालिङ्य मया रहस्यमुदितं तत्सङ्गमाकाङ्ङ्क्षया । मुग्धे दुष्करमेतदित्यतितरामुक्का सहासं बलाद् आलिङ्य छलितास्मि तेन कितवेनाद्य प्रदोषागमे ॥ ४१ ॥ आशय प्रणतं पटान्तपिहिती पादौ करोत्यादरात् व्याजेनागतमाहणोति इसितं न स्पष्टमुदीक्षते । भय्यालापवति प्रतीपवचनं सख्या सहाभाषते तस्यास्तिष्ठतु निर्भरप्रणयिता मानोपि रम्योदयः ॥ ४२ ॥ सा यावन्ति पदान्यलीकवचनैरालीजनैः शिक्षिता तावन्त्येव कृतागसो द्रुततरं व्याहृत्य पत्युः पुरः । प्रारब्धा पुरतो यथा मनसिजस्याज्ञा तथा वर्तितुं प्रेम्णोमौग्ध्यविभूषणस्य सहजः कोप्येष कान्तः क्रमः ॥४३॥ दूरादुत्सुकमागते विवलितं सम्भाषिणि स्फारितं संविष्यत्यरुणं गृहीतवसने किश्चिन्तभूलतं । Tigic red by Google १३२