पृष्ठम्:काव्यसंग्रहः.pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३० श्रमरुशतकं । उरसि मिहितस्तारो हारः कृता जघने घने कलकलवती काच्ची पादौ क्वणन्मणिनूपुरौ । प्रियमभिसरसि मुग्धे त्वं समाहतडिण्डिमा यदि किमधिकचासोत्कम्पं दिशः समुदीक्षसे ॥ २८ ॥ प्रातः प्रातरुपागतेन अनिता निर्निद्रता चक्षुषोर मन्दायां मयि गौरवव्यपगमादुत्पादितं लाघवं । किं मुग्धे न मया कृतं रमणधीर्मुक्ता त्वया गम्यतां दुस्थं तिष्ठसि यच्च पथ्यमधुना कर्तास्मि तत् श्रोष्यसि ॥२८॥ सा बाला वयमप्रगल्भमनसः सा स्त्री वयं कातराः सा पीनोन्नतिमत् पपोधरयुगं धत्ते सखेदा वयं । साकान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं दोषैरन्यअनाश्रितैरपटवो जाताः स्म इत्यद्भुतं ॥ ३० ॥ प्रस्थानं वलयैः कृतं प्रियसखैरखैरजस्रं गतं भृत्या न क्षणमासितं व्यवसितं चित्तेन गन्तुं पुरः । यातुं निश्चितचेतसि प्रियतमे सर्वे समं प्रस्थिता गन्तव्ये सति जीवितप्रियसुहृत्सार्थः किमु त्यज्यते ॥ ३१ ॥ सन्दष्टाधरपल्लवा सचकितं हस्ताग्रमाधुन्वती मामामुष्ठ शठेति कोपवचनैरानर्तितभूलता । शीत्काराञ्चितलोचना सरभसं यैखुम्बिता मानिनी प्राप्तं तैरसृतं मुधैव मथितो मूटैः सुरैः सागरः ॥ ३२ ॥ सुप्तोयं सखि सुप्यतामिति गताः सख्यस्ततोऽनन्तरं प्रेमावासितया मया सरलया न्यस्तं मुखं तन्मुखे । higt.red by Google