इत्युक्ते व तदित्युदीर्य सहसा तत् संप्रमार्ष्ट मया
साविष्टा रभसेन तत्सुखवशात् तम्यापिदव् ॥ २२ ॥
त्वं मुग्धाक्षि विनैव कचुलिकया धत्से मनोहारिखीं
लक्ष्मोमित्यभिधायिनि प्रियतमे तहीटिकां संस्पृशि
शय्योपान्त निविष्टसस्मितमुखीनेषोत्सवानन्दितो
निर्यातः शनकैरलीकवचनोपन्यासमाली जनः ॥ २३ ॥
भूभङ्गे रचितेपि दृष्टिरधिकं सोत्कण्ठमुद्दीक्षते
कार्कश्यं गमितेपि चेतसि तनूरोमाञ्चमालम्बते ।
रुडायामपि वाचि सस्मितमिदं दग्धाननं जायते
दृष्टे निर्वहणं भविष्यति कथं मानस्य तस्मिन् जने ॥ २४ ॥
कान्ते कत्यपि वासराणि गमय त्वं मीलयित्वा दृशौ
स्वस्ति स्वस्ति निमीलयामि नयने यावन्त्र शून्या दिशः ।
आयाता वयमागमिष्यति सुहृदर्गस्य भाग्योदयैः
सन्देशो वद कस्तवाभिलषितस्तीर्थेषु तोयाञ्जलिः ॥ २५ ॥
सा पत्युः प्रथमापराधसमये सस्थोपदेशं विना
नो आनाति सविभ्रमानवलनावकोक्तिसंसूचनं ।
स्वच्छेरच्छ कपोलमूलग लितैः पर्यस्तनेषोत्पला
बाला केवलमेव रोदिति लुठलोलालकैरशुभिः ॥ २६ ॥
भवतु विदितं भव्यालापैरलं खलु गम्यतां
तनुरपि न ते दोषोऽस्माकं विधिस्तु पराङ्मुखः ।
तव यदि तथा भूतं प्रेमप्रपन्नमिमां दशां
प्रकृतितरले का नः पीडा गते हतजीविते ॥ २७ ॥