पृष्ठम्:काव्यसंग्रहः.pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२८ अमरुशतकं । प्रसादपराङ्मुखे चरणपतमप्रत्याख्यानात् निश्चतकितवाचारेत्युक्ता रुषा परुषीकृते । व्रजति रमणे निःश्वस्योचैः स्तनस्थितहस्तया नयनसलिलच्छलादृष्टिः सखीषु निवेशिता ॥ १७॥ काच्या गाढतरावरुद्धवसनप्रान्ता किमर्थं पुनर् मुग्धाक्षी स्वपतीति तत्परिजनं स्वैरं प्रिये पृच्छति । मातः सुप्तमपीड वारयति मामित्याहितकोधया पर्यस्य स्वपितिच्छलेन शयने दत्तोऽवकाशस्तया ॥१८॥ एकस्मिन् शयने पराङ्मुखतया वीतोत्तरं ताम्यतो र् अन्योन्यस्य हृदि स्थितेप्यनुनये संरक्षतो गौरवं । दम्पत्योः शनकैरपाङ्ग्वलनान् मिश्रीभवञ्चक्षुषोर् भनो मानकलिः सहासरभसं व्यासक्तकण्ठग्रहं ॥ १८ ॥ पश्यामो मयि किं प्रपद्यत इति स्थैयें मयालम्बितं किं मामालपतीत्ययं खलु शठः कोपस्तयाप्याश्रितः । इत्यन्योन्यविलक्षदृष्टिचतुरे तस्मिन्नवस्थान्तरे सव्याजं इसितं मया धृतिहरो वाष्पस्तु मुक्तस्तया ॥ २० ॥ परिहाने माने मुखशशिनि तस्याः करटते मयि क्षीणोपाये प्रणिपतनमानेकशरणे । तया पक्ष्मप्रान्तब्रजपुटनिरुह्वेन सहसा प्रसादो वाष्पेन स्तनतटविशीर्सेन कथितः ॥ २१ ॥ तस्याः सान्द्रविलेपनस्तनतटप्रश्लेषमुद्राङ्कितं किं वक्षश्चरणानतिव्यतिकरव्याजेन गोपाय्यते । Digned by Google