[अध्वन्येन विमुक्तकण्ठमखिलां रात्रिं तथा कन्दितं
ग्रामीणैव्रजतो जनस्य वसति ग्रमे निषिवा यथा ॥ ११ ।
कथमपि सखि क्रीडाकोपाद् ब्रजेति मयोदिते
कठिन हृदयस्यक्ता शय्यां बलाङगऺतएव सः ।
इति सरभसं ध्वस्तप्रेम्णि व्यपेतघृणे जने
पुनरपि इतव्रीडं चेतः प्रयाति करोमि किं ॥ १२ ॥
दम्पत्यो निशि जल्पतो ग्रहशुकेनाकर्णितं यदचस्
तत् प्रातर्गुरुसन्निधौ निगदतस्तस्योपहारं बधूः ।
कर्णालगतिपद्मरागशकलं विन्यस्य चच्चूपुढे
ब्रीडार्ता प्रकरोति दालिमफलब्याजेन वाग्बन्धनं ॥ १३ ॥
अज्ञानेन पराङ्मुख परिभवादाविष्य मां दुःखितां
किं लब्धं चटुल त्वयेह नयता सौभाग्यमेतां दशां ।
पश्यैतहयिता कुचव्यतिकरोन्मृष्टाङ्गरागारुणं
वक्षस्ते मलतैलपऋशवले सीपरचितं ॥ १४॥
एकचासनसंस्थितिः परिक्षता प्रत्युतमाहूरतस्
ताम्बूखानयनच्छलेन रभसालेषोपि संविधितः ।
आलापोपि न विश्रुतः परिजनं व्यापारयन्त्यान्तिके
कान्तं प्रत्युपचारतञ्चतुरया कोपः कृतार्थीकृतः ॥ १५॥
दृष्कासनसंस्थिते प्रियतमे पञ्चादुपेत्यादराद्
एकस्या नयने पिधाय विहितक्रीडानुबन्धच्छलः ।
ईषडक्रिमकन्धरः सपुलकः प्रेमोलसम्मानसाम्
अन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥ १६ ॥
पृष्ठम्:काव्यसंग्रहः.pdf/१४०
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२७
अमरुशतकं