पृष्ठम्:काव्यसंग्रहः.pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरुशतकं | [[अध्वन्येन विमुक्तकण्ठमखिलां रात्रिं तथा कन्दितं ग्रामीणैव्रजतो जनस्य वसति ग्रमे निषिवा यथा ॥ ११ । कथमपि सखि क्रीडाकोपाद् ब्रजेति मयोदिते कठिन हृदयस्यक्ता शय्यां बलागतएव सः । इति सरभसं ध्वस्तप्रेम्णि व्यपेतघृणे जने पुनरपि इतव्रीडं चेतः प्रयाति करोमि किं ॥ १२ ॥ दम्पत्यो निशि जल्पतो ग्रहशुकेनाकर्णितं यदचस् तत् प्रातर्गुरुसन्निधौ निगदतस्तस्योपहारं बधूः । कर्णालगतिपद्मरागशकलं विन्यस्य चच्चूपुढे ब्रीडार्ता प्रकरोति दालिमफलब्याजेन वाग्बन्धनं ॥ १३ ॥ अज्ञानेन पराङ्मुख परिभवादाविष्य मां दुःखितां किं लब्धं चटुल त्वयेह नयता सौभाग्यमेतां दशां । पश्यैतहयिता कुचव्यतिकरोन्मृष्टाङ्गरागारुणं वक्षस्ते मलतैलपऋशवले सीपरचितं ॥ १४॥ एकचासनसंस्थितिः परिक्षता प्रत्युतमाहूरतस् ताम्बूखानयनच्छलेन रभसालेषोपि संविधितः । आलापोपि न विश्रुतः परिजनं व्यापारयन्त्यान्तिके कान्तं प्रत्युपचारतञ्चतुरया कोपः कृतार्थीकृतः ॥ १५॥ दृष्कासनसंस्थिते प्रियतमे पञ्चादुपेत्यादराद् एकस्या नयने पिधाय विहितक्रीडानुबन्धच्छलः । ईषडक्रिमकन्धरः सपुलकः प्रेमोलसम्मानसाम् अन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥ १६ ॥ Digized by Google १२७