पृष्ठम्:काव्यसंग्रहः.pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२६ श्रमरुशतकं । लिखनास्ते भूमिं वहिरवमतः प्राणदयितो निराधाराः सख्यः सततरुदितोच्छ्रननयनाः । परित्यक्तं सर्वं इसितपठितं पश्चरशुकैस् तवावस्था चेयं विसृज कठिने माममधुना ॥ ६ ॥ नार्यस्तग्वि इठावरन्ति रमलं तिष्ठन्ति नो वारितास् तत् किं ताम्यसि किञ्च रोदिषि मुधा तासां प्रियं मा कृथाः । कान्तः केलिरुचिर्युवा सहृदयस्तादृक् पतिः कातरे किस्रो वर्करकर्करैः प्रियशतैराकम्य विकीयते ॥ ७ ॥ कोपात् कोमललोलबाहुलतिकापाशेन वड्ढा दृढं नीत्वा केलिनिकेतनं दयितया सायं सखीनां पुरः । भूयोऽप्येवमिति स्खलन् मृदुगिरा संसूच्य दुञ्चेष्टितं धन्यो हन्यत एव निद्भुतिपरः प्रेयान् रुदत्या हसन् ॥८॥ प्रहरविरती मध्ये वास्ततोपि परेथवा किमुत सकले जाते वाशि प्रिय त्वमेष्यसि । इति दिनशतप्राप्यं देर्श प्रियस्य यियासतो हरति गमनं बालालापैः सवाष्यगलज्जलैः ॥ ८॥ याताः किन्न मिलन्ति सुन्दरि पुनश्चिन्ता त्वया मत्कृते नो कार्या नितरां कृशासि कथयत्येवं सवाप्पे मयि । लज्जामन्थरतारकेण पितराया चक्षुषा दृष्ट्वा मां इसितेन भाविमरणोत्सा इस्तया सूचितः ॥ १०॥ धीरं वारिधरस्य वारि किरतः श्रुत्वा निशीथे ध्वनिं दीर्घोच्छासमुदश्रुणा विरहिणीं बालां चिरं ध्यायता । higt. Zed by Google