सामग्री पर जाएँ

पृष्ठम्:काव्यसंग्रहः.pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२४
घटकर्पर ।

मधुनः समवेक्ष्य कालतां ।
भ्रमरश्चुम्वति यूथिकालतां ॥ १९ ॥
तासाम्मृतुः सफल एव हि या दिनेषु ।
सेन्द्रायुधाम्बुधरगर्जितदुर्दिनेषु
रत्युत्सवं प्रियतमैः सह मानयन्ति ।
मेघागमे प्रियसखीश्च समानयन्ति ॥ २० ॥
एतन्निशम्य विरहानलपीडितायास् ।
तस्या वचः खलु दयालुरपीडितायाः ॥
स्वं स्वारवेण कथितं जल्लदैरमोघैः ।
प्रत्याययौ स गृहमूनदिनैरमोघैः ॥ २१ ॥
श्रालम्ब्य चाम्बु तृषितः करकोषपेयं ।
भावानुरक्तवनितासुरतैः शपेयं ॥
जोयेय येन कविना यमकैः परेण ।
तस्मै बहेयमुद्रकं घटकर्परेण ॥ २२ ॥
इति श्रीघटकर्परकविकृतं यमककाव्यं
           समाप्तं ॥