सामग्री पर जाएँ

पृष्ठम्:काव्यसंग्रहः.pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२३
घटदर्पर ।

मार्गेषु मेघसलिलेन विनाशितेषु ।
कामे धनुः स्पृशति तेन विनाशितेषु ।
गम्भीर मेघरसितव्यथिता कदाहं ।
जह्मां सखि प्रियवियोगजशोकदाहं ॥१४॥
सुसुगन्धतया बनेजितानां ।
स्वनदम्भोधरवायुवी जितानां ॥
मदनस्य कृते निकेतकानां ।
प्रतिभान्त्यद्य वनानि केतकानां ॥१५॥
तत् साधु यत् त्वां सुतरं ससर्ज |
प्रजापतिः कामनिवास सर्ज ॥
त्वं मञ्जरीभिः प्रवरो वनानां ।
नेत्रोत्सवश्वासि सयौवनानां ॥ १६ ॥
नवकदम्ब शिरोवनतास्मि ते ।
बसति यन्मदनः कुसुमस्मिते ॥
कुटज किं कुसुमैरुपहस्यते ।
निपतितास्मि सुदुःप्रसहस्य ते ॥१७॥
तरुवर विनतास्मि ते सदाहं ।
हृदयं मे प्रकरोषि किं सदाहं ॥
तव कुसुमनिरीक्षणे पदेहं ।
विसृजेयं सइसैव नीपदेहं ॥ १८ ॥
कुसुमैरुपशोभितां सितैर् ।
घनमुक्ताम्बुलवप्रकासितैः॥