पृष्ठम्:काव्यसंग्रहः.pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

घटदर्पर । मार्गेषु मेघसलिलेन विनाशितेषु । कामे धनुः स्पृशति तेन विनाशितेषु । गम्भीर मेघरसितव्यथिता कदाई । जह्मां सखि प्रियवियोगजशोकदाहं ॥१४॥ सुसुगन्धतया बनेजितानां । स्वनदम्भोधरवायुवी जितामां ॥ मदनस्य कृते निकेतकानां । प्रतिभान्त्यद्य वनानि केतकानां ॥१५॥ तत् साधु यत् त्वां सुतरं ससर्ज | प्रजापतिः कामनिवास सर्ज ॥ त्वं मञ्जरीभिः प्रवरो वनानां । नेत्रोत्सवश्वासि सयौवनानां ॥ १६ ॥ नवकदम्ब शिरोवनतास्मि ते । बसति यन्मदनः कुसुमस्मिते ॥ कुटञ किं कुसुमैरुपहस्यते । निपतितास्मि सुदुःप्रसहस्य ते ॥१७॥ तरुवर विनतास्मि ते सदाहं । हृदयं मे प्रकरोषि किं सदाहं ॥ तव कुसुमनिरीक्षणे पदेहं । विसृजेयं सहसैव नीपदेहं ॥ १८ ॥ कुसुमैरुपशोभितां सितैर् । घनमुक्ताम्बुलवप्रकासितैः ॥ Digi: red by Google १२३