पृष्ठम्:काव्यसंग्रहः.pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२२ घटकर्पर । अन्यदेशरतिरद्य मुच्यतां । साथ वा तव बंधूः किमुच्यतां ॥ ८ ॥ हंसपंक्तिरपि नाथ सम्प्रति । प्रस्थिता वियति मानसं प्रति ॥ चातकोपि तृषितोऽम्बु याचते । दुःखिता पथिक सा प्रिया च ते ॥ ८ ॥ नीलशष्यमभिभाति कोमलं । वारि विन्दति च चातकोमलं ॥ अम्बुदैः शिखिगणी विनाद्यते । का रतिर्दयितया विनाद्य ते ॥ १० ॥ मेघशब्दमुदिताः कलापिनः । प्रोषिताहृदयशोकलापिनः ॥ तोयदागमकृशापि साद्य ते । दुर्धरेण मदनेन साद्यते ॥ ११ ॥ किं कृपापि तव नास्ति कान्तया । . पाण्डुगण्डपतितालकान्तया ॥ शोकसागरजलेऽद्य पातितां । त्वगुणस्मरणमेव पाति तां ॥ १२ ॥ कुसुमितकुटजेषु काननेषु । प्रियरहितेषु समुत्सकाननेषु 8 वहति च कलुषे जस्ले नदीनां । किमिति च मां समवेक्षसे न दीनां ॥ १३ ॥ Google Digi zed by [1] 4