एतत् पृष्ठम् परिष्कृतम् अस्ति
१२१
घटकर्पर ।
मेघावृतं निशि न भाति नभो वितारं ।
निद्राभ्युपैति च हरिं सुखसेवितारं ॥
सेन्द्रायुधश्च जलदोधरसन्निभानां ।
संरम्भमावहति भूधरसन्निभानां ॥ ३ ॥
सतडिज्जलदार्पितं नगेषु ।
स्वनदम्भोधरभीतपन्नगेषु ॥
परिधीररवं जलं दरीषु ।
प्रपतत्यद्भुतरूपसुन्दरीषु ॥ ४ ॥
क्षिप्रं प्रसादयति सम्प्रति कोपितानि |
कान्तामुखानि रतिविग्रहकोपितानि ॥
उत्कण्ठयन्ति पथिकान् जलदाः स्वनन्तः ।
शोकः समुद्भवति तइनितास्वनन्तः ॥ ५ ॥
छादिते दिनकरस्य भावने ।
खाज्जले पतति शोकभावने ॥
मन्मथेच हृदि हन्तुमुद्यते ।
प्रोषितप्रमदयेदमुद्यते ॥६॥
सर्वकालमवलंध्य तोयदा ।
श्रागता स्थ दयितो गतो यदा |
निर्घृणेन परदेशसेविना।
मारयिष्यथ इतेन मां विना ॥ ७ ॥
व्रत तं पथिकपांशुलं घनाः ।
यूयमेव पथि शीघ्रलंघनाः ॥