पृष्ठम्:काव्यसंग्रहः.pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

घटकर्पर । मेघाहतं निशि न भाति नभो वितारं । निद्राभ्युपैति च हरिं सुखसेवितारं ॥ सेन्द्रायुधश्च जलदोधरसन्निभानां । संरम्भमावहति भूधरसन्निभानां ॥ ३ ॥ सतडिज्जलदार्पितं नगेषु । स्वनदम्भोधरभीतपन्नगेषु ॥ परिधीररवं जलं दरीषु । प्रपतत्यद्भुतरूपसुन्दरीषु ॥ ४ ॥ क्षिप्रं प्रसादयति सम्प्रति कोपितानि | कान्तामुखानि रतिविग्रहको पितानि ॥ उत्कण्ठयन्ति पथिकान् जलदाः स्वनन्तः । . शोकः समुद्भवति तइनितास्वनन्तः ॥ ५ ॥ छादिते दिनकरस्य भावने । खाजले पतति शोकभावने ॥ मन्मथेच हृदि हन्तुमुद्यते । प्रोषितप्रमदयेदमुद्यते ॥६॥ सर्वकालमवलंय तोयदा । जागता स्थ दयितो गतो यदा | निर्घृणेन परदेशसेविना। मारयिष्यथ इतेन मां विना ॥ ७ ॥ व्रत तं पश्चिकपांशुलं घनाः । यूयमेव पथि शीघ्रलंघनाः ॥ त 1€ Dight red by Google १२१