यस्यजराजातनुतःपृथग्व्यवासौजनाद्रराजातनुतः ॥
तं हासेनापालिः स्वयंवरं क्षितिभुजां ससेनापालिः |
न बभासेनापालिः लगेषु यैः शिरसि या रसेनापालि |
तां गां सेनाराजि स्वर्गसदां यैः सदारसेनाराजि ।
श्रायासेनाराजिक्षयितरियौ चलति विबुधसेनाराजि ।।
सोथ परमहस्तेन प्रापि नलेनोत्सवः परमहस्तेनः ।
स्फुरितपरमहस्तेन प्रवभौरविणेवतत्पुरं परमहस्तेन ॥
क्षिप्तखसन्नालीकानहितेषु मुखेन्दुतुलितसन्चालीकान् ।
राजःसन्नालोकान् कान्तिर्विबुधांश्चनाहसन्नालीकान् ॥
शत्रुकलापास्यन्तम्प्रेक्ष्य मलंसुरततिःकलापास्यन्तमं ॥
स्वर्निलयानामनलंकृतमपिजेतुन्ततिः श्रियानामनलं ।
यमज़ेयानामनलम्प्रोचेशक्रस्तमरिचयानामनलमं ॥
वद कामायासन्नस्त्वम्भैम्यै यद्गुणाः श्रमायासन्नः ।
श्रेष्ठतमायासनस्त्वान्द्रष्टा नतु अनः स्वमायासनः॥ ३५ ॥
इति सरवेकेहास्तन्यस्थ समुकुलं सुरप्रवेकेहास्त ।
ताम विवेकेहास्तः श्रयति स्त्रीतच पार्थिवेकेहास्त ॥
हरिपवमानयमानान्दुतोऽस्मिनलोमहारमानयमानान् ।
भवर्तीमानयमानान्मैमिसुरान्विञ्चिमइमिमानयमानान्॥
तुल्येप्सरसादेहिप्रभवो मग्ना स्मर प्रसरसादेहि ।
तानभिसरसादेहि सजञ्चनाकात्सुख़ञ्चसरसादेहि ।
इति कृतसामारवतः सुरलोकात्तम्मुखेन सामारवतः ।
पृष्ठम्:काव्यसंग्रहः.pdf/१३१
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति
११८
नलोदयः ।