पृष्ठम्:काव्यसंग्रहः.pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२ गीतंगोविन्द | अथ सहसा सन्तुष्टं सुरतान्ते सा नितान्तखिनाङ्गो । राधा जगाद सादरमिदमानन्देन गोविन्दं ॥ १७॥ रामकिरीरागयतितालाभ्यां गीयते ॥ कुरु यदुनन्दन चन्दनशिशिरतरेण करेण पयोधरे । मृगमदयत्रकमच मनोभवमङ्गलकलससहोदरे ॥ निजगाद सा यदुमन्दमे क्रीडति हृदयानन्दने ॥१८॥ अलि कुलगञ्जनमञ्जनकं रतिनायकशायकमोचने । स्वधरचुम्बनलम्बितकज्जलमुज्जलय प्रिय लोचने # निज़गाद सा० ॥ १८ नयन कुरङ्गतरङ्गविकाशनिरासकरे श्रुतिमण्डले । मनसिजपाशविलासधरे शुभषेश निवेशय कुण्डले ॥ निजगाद सा० ॥ २० ॥ भ्रमरचयं चयन्तमुपरि रुचिरं सुचिरं मम सम्मुखे । जितकमले विमले परिकर्मय नर्मजनकमलकं मुखे ॥ निज़गाद सा० ॥ २१ ॥ मृगमद्रसवलितं ललितं कुरु तिलकमलिकरजनीकरे । विडितकलङ्ककलं कमलानन विश्रमितश्रमशीकरे ॥ निजगाद सा० ॥ २२ ॥ मम रुचिरे चिकुरे कुरु मानद मानसजध्वजचामरे । रतिगलिते ललिते कुसुमानि शिखण्डिशिखण्डकडामरे ॥ निजगाद सा० ॥ २३ ॥ सरसघने जघने मम शम्बरदारसवारणकन्दरे । Google Digized by