पृष्ठम्:काव्यसंग्रहः.pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्द । क्षणमधुना० ॥ ४ ॥ प्रियपरिरम्मखर भसवलितमित्र पुलकितमतिदुरवापं । मदुरसि कुछ कलशं विनिवेशय शोषय मनसिजतापं ॥ ११० क्षणमधुना० ॥ ५ ॥ अधरसुधारसमुपनय भामिनि जीषय मृतमिष दासं । त्वयि विनिचितममसं विरहानलदग्धवपुषमविलासं | क्षणमधुमा० ॥ ६ ॥ मणिरसनागुणमनुगुणकण्ठनिनाद । शशिमुखि मुखरय श्रुतियुगले पिकरुतविकले शमय मम विरादवसा ॥ क्षणमधुना० ॥ ७॥ मामतिविफलरुषा विकलीञ्चतमवलोकितुमधुनेदं । मीलितलज्जितमिव नयनं तव विरम विसृज रतिखेद ॥ क्षणमधुना० ॥ ८ ॥ श्रीजयदेवभणितमिदमनुपदनिगदितमधुरिपुमोदं । जनयतु रसिकजनेषु मनोरमरतिरसभावविनोद | क्षसमधुना० ॥ ८ ॥ प्रत्यूहः पुखकारेण निविडालेषे निमेषेण च क्रीडाकूतविलोकिते ऽधरसुधापाने कथाकेलिभिः । आनन्दाधिगमेन मन्मथकलायुहेऽपि यस्मिन्वभूद तद्भूतः स तयोर्बभूव सुरतारम्भः प्रियम्भावुकः ॥ १० ॥ दोर्भ्य संयमितः पयोधरअरेणापीडितः पाणिजैर् विदशनेः क्षताधरपुरः श्रोणीतटेना इतः । Digitzed by Google 7 17.