पृष्ठम्:काव्यसंग्रहः.pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्द ।.. प्रविश राधे माधवसमीपमिह विलस दशनरुचिरुचिरशिखरे ॥ २० ॥ विचितपद्मावतीसुखसमाजे । कुरु मुरारे मङ्गलशतानि भयति जयदेवकविराजराजे ॥ २१ ॥ त्वां चित्तेन चिरं वहनयमिति श्रान्तो भृशं तापितः कन्दर्पेण च पातुमिच्छति सुधासंवाधविम्बाधरं । अस्याङ्कं तदलं कुरु क्षयमिह भूक्षेपलक्ष्मीलव क्रीते दासइवोपसेवितपदाम्भोजे कुतः सम्भ्रमः ॥ २२ ॥ सा ससाध्वसमानन्दं गोविन्दे लोललोचना । सिञ्जामा मञ्जु मञ्जीरं प्रविवेश निवेशनं ॥ २३ ॥ वराडीरागयतितालाम्यां गीयते ॥ राधावदनविलोकन विकसित विविधविकारविभङ्गं । जलनिधिमिव विधुमण्डलदर्शनतरखिततुङ्गतरनं ॥ हरिमेकरसं चिरमभिलषितविलासं । सा ददर्श गुरुहर्षवशम्बदबदनमङ्ग विकाशं । भुं ॥ २४ ॥ हारममलतरतारमुरसि दधतं परिलम्ब्या विदूरं । स्फुटतरफेनकदम्बकरम्बितमिव यमुनाजलपूर ॥ हरिमेकरसं० ॥ २५ ॥ श्यामलम्बटुलकलेवरमण्डलमधिगतगौरदुकूलं । नीलनलिनमिव पीतपरागपटलभरवलयितमूलं ॥ इरिमेकरसं० ॥ २६ ॥ higt; red by Google