पृष्ठम्:काव्यसंग्रहः.pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०६ गीतगोविन्द । द्वारे निकुञ्जनिलयस्य हरिं निरीक्ष्य व्रोडावतीमथ सखी निजगाद राधां ॥ १३ ॥ वराडीरागरूपकतालाभ्यां गोयते ॥ मनुतरकुञ्जतलकेलिसदने । प्रविश राधे माधवसमीपमिह विलस रतिरभसइसितवदने ॥१४॥ नवभवदशोकदलशयनसारे । प्रविश राधे माधवसमीपमिह विलस कुचकलसतरलहारे ॥ १५ ॥ कुसुमचयरचितशुचिवासगेहे । प्रविश राधे माधवसमीपमिह विलस कुसुमसुकुमारदेहे ॥ १६ ॥ चलमलयवनपवनसुरभिशीते । प्रविश राधे माधवसमीपमिह विलस रतिवलितललितगीते ॥१७॥ विततबहुवलिनवपल्लवघने । प्रविश राधे माधवसमीपमिह विलस चिरमलसपीनजघने ॥१८॥ मधुमुदितमधुपकुलकलितरावे । प्रविश राधे माधवसमीपमिह विलस मदनरभसरसभावे ॥ १९ ॥ मधुतरलपिकनिकरनिनदमुखरे । by Google Digized by