एतत् पृष्ठम् परिष्कृतम् अस्ति
१०६
गीतगोविन्द ।
द्वारे निकुञ्जनिलयस्य हरिं निरीक्ष्य
व्रोडावतीमथ सखी निजगाद राधां ॥ १३ ॥
वराडीरागरूपकतालाभ्यां गोयते ॥+तरकुञ्जतलकेलिसदने ।
प्रविश राधे माधवसमीपमिह
विलस रतिरभसइसितवदने ॥१४॥
नवभवदशोकदलशयनसारे ।
प्रविश राधे माधवसमीपमिह
विलस कुचकलसतरलहारे ॥ १५ ॥
कुसुमचयरचितशुचिवासगेहे ।
प्रविश राधे माधवसमीपमिह
विलस कुसुमसुकुमारदेहे ॥ १६ ॥
चलमलयवनपवनसुरभिशीते ।
प्रविश राधे माधवसमीपमिह
विलस रतिवलितललितगीते ॥१७॥
विततबहुवलिनवपल्लवघने ।
प्रविश राधे माधवसमीपमिह
विलस चिरमलसपीनजघने ॥१८॥
मधुमुदितमधुपकुलकलितरावे ।
प्रविश राधे माधवसमीपमिह
विलस मदनरभसरसभावे ॥ १९ ॥
मधुतरलपिकनिकरनिनदमुखरे ।