पृष्ठम्:काव्यसंग्रहः.pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्द । १०५ चण्डि रणितरसनारवडिण्डिममभिसर सरसमलज्जं ॥ मुग्धे० ॥ ७ ॥ स्मरशरसुभगनखेन करेण सखीभवलम्ब्य सलीलं। चलवलय क्वणितैरवबोधय इरिमपि निजगतिशीलं ॥ मुग्धे० ॥ ८ ॥ श्रीजयदेवभणितमधरीकृतहारमुदासितवामं । हरिविनिहितमनसामधितिष्ठतु कण्ठतटीमविरामं ॥ मुग्धे० ॥ ६ ॥ सा मां द्रश्यति वक्ष्यति स्मरकथां प्रत्यङ्गमालिङ्गनैः प्रीतिं यास्यति र॑स्यते सखि समागत्येति चिन्ताकुलः । स त्वां पश्यति कम्पते पुलकयत्यानन्दति स्विद्यति प्रत्युगच्छति मूर्खति स्थिरतमः पुज्ने निकुञ्जे प्रियः ॥ १० ॥ अक्ष्णोर्निक्षिपदञ्चनं श्रवणयोस्तापिच्छगुच्छावलीं मूर्ति श्यामसरोजदाम कुचयोः कस्तूरिकापचकं । धूर्तानामभिसारसत्वरहृदां विश्वनिकुञ्चे सखि ध्वान्तं नीलनिचोलचारु सुदृशां प्रत्यङ्गमालिङ्गति ॥११॥ काश्मीरगौरवपुषामभिसारिकाणां त्राबद्धरेखमभितो रुचिमञ्जरीभिः । एतत्तमालदलनीलतमं तमिश्रं तत्प्रेमहेमनिकषोपलतां तनोति ॥ १२ ॥ हारावलीतरलकाञ्चनकाञ्चिदाम केयूरकङ्गणमणिद्युतिदीपितस्य । G 14 acred by Google