सानन्ददामोदरः ।
सुचिरमनुनयेन प्रीणयित्वा मृगाक्षी
गतवती कृतवेशे केशवे कुञ्जशय्यां ।
रचितरुचिरभूषां दृष्टिमोषे प्रदेषे
स्फुरति निरवसादां कापि राधां जगाद ॥ १ ॥
वसन्तरागयतितालाभ्यां गीयते ॥
विरचितचाटुवचनरचनं चरणे रचितप्रणिपातं ।
संप्रति मञ्जुलबञ्जुलसीमनि केलिशयनमनुयातं ॥
मुग्धे मधुमथनममुगतमनुसर राधिके । घ्रं ॥ २॥ :
धनजघनस्तनभारभरे दरमन्थरचरणविहारं ।
मुखरितमणिमञ्जीरमुपैछि विधेहि मरालविकार :
मुग्धे० ॥ ३ ॥
ऋणु रमणीयतरं तरुणीजनमोहनमधुरिपुरावं ।
कुसुमशरासनशासनषन्दिनि पिकनिकरे भज भावं ॥
मुग्धे० ॥ ४ ॥
करेण लतानिकुरुम्बं ।
अनिलतरलकिशलयनिकरण
प्रेरणमिव करभोरु करोति गतिं प्रतिमुच विलम्बं ॥
मुग्धे० ॥ ५ ॥
स्फुरितमनङ्गतरङ्गवशादिव सूचितहरिपरिरम्भं ।
पृच्छ मनोहरहारविमलजलधारममं कुचकुम्भं ॥
मुग्धे० ॥ ६ ॥
अधिगतमखिलसखीभिरिदं तव वपुरपि रतिरणसज्जं ।
पृष्ठम्:काव्यसंग्रहः.pdf/११७
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति
गीतगोविन्द