पृष्ठम्:काव्यसंग्रहः.pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्द | सानन्ददामोदरः । सुचिरमनुनयेन प्रीपयित्वा मृगाक्षी गतवती कृतवेशे केशवे कुञ्जशय्यां । रचितरुचिरभूषां दृष्टिमो प्रद स्फुरति निरवसादां कापि राधां जगाद ॥ १ ॥ वसन्तरागयतितालाभ्यां गीयते ॥ १०४ विरचितचाटुवचनरचनं चरणे रचितप्रणिपातं । संप्रति मञ्जुलबञ्जुलसीमनि केलिशयनमनुयातं ॥ मुग्धे मधुमथनममुगतमनुसर राधिके । घ्रं ॥ २॥ : धनजघनस्तनभारभरे दरमन्थरचरणविहारं । मुखरितमणिमञ्जीरमुपैछि विधेहि मरालविकार : मुग्धे० ॥ ३ ॥ ऋणु रमणीयतरं तरुणीजनमोहनमधुरिपुरावं । कुसुमशरासनशासनषन्दिनि पिकनिकरे भज भावं ॥ मुग्धे० ॥ ४ ॥ करेण लतानिकुरुम्बं । अनिलतरलकिशलयनिकरण प्रेरणमिव करभोरु करोति गतिं प्रतिमुच विलम्बं ॥ मुग्धे० ॥ ५ ॥ स्फुरितमनङ्गतरङ्गवशादिव सूचितहरिपरिरम्भं । पृच्छ मनोहरहारविमलजलधारममं कुचकुम्भं ॥ मुग्धे० ॥ ६ ॥ अधिगतमखिलसखीभिरिदं तव वपुरपि रतिरणसज्जं । Google Digited by