पृष्ठम्:काव्यसंग्रहः.pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्द | तदुदितभयभञ्जनाय यूनां त्वदधरसीधुसुधैव सिद्धमन्त्रः ॥ १२ ॥ व्यथयति वृथा मौनं तन्वि प्रपश्चय पञ्चमं तरुणि मधुरालापैस्तापं विनोदय दृष्टिभिः । सुमुखि विमुखीभावं तावचिमुच न मञ्च मां स्वयमतिशयस्निग्धे मुग्धे प्रियोऽहमुपस्थितः ॥ १३ ॥ बन्धूकचुतिबान्धवोऽयमधरः स्निग्धो मधूकच्छविर् गण्डञ्चण्डि चकास्ति मीलनलिनश्रीमोचनं लोचनं । नासाभ्येति तिलप्रसूनपदवीं कुन्दाभदन्ति प्रिये प्रायस्त्वन्मुखसेवया विजयते विश्वं स पुष्पायुधः ॥ १४॥ दृशौ तव मदालसे बदनमिन्दुसन्दीपकं गतिर्जनमनोरमा विजितरम्भमूरुवयं । रतिस्तव कलावती रुचिरचिचलेखे भ्रुवाव् अहो विबुधयौवतं वहसि तन्वि पृथ्वीगता ॥१५॥ प्रीतिं वस्तनुतां हरिः कुवलयापीडेन साईं रणे. राधापीनपयोधरस्मरणकृत्कुम्भेन सम्भेदवान् । यच स्विद्यति मीलति क्षणमथ क्षिप्ते दिपे तत्क्षणात् कंसस्यालमभूजितं जितमिति व्यामोहकोलाहलः ॥ १६ ॥ इति श्रीगीतगोविन्दे मानिनव चतुर्भुज नाम दशमः सर्गः ॥ १० ॥ Google Digi: zed by