पृष्ठम्:काव्यसंग्रहः.pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०२ गीतगोविन्द | मम हृदयरञ्जनं स्थलकमलगञ्जनं अनितरतिरङ्गपरभागं । भय मसृणवाणि करवाणि चरण इयं सरसलसदलक्तकरागं ॥ प्रिये० ॥ ७ ॥ स्मरगरलखण्डनं मम शिरसि मण्डनं. देहि पदपल्लवमुदारं । ज्वलति मयि दारुणो मदनकदमानलो 'हरतु तदुपाहितविकार | प्रिये ॥ ८ ॥ इति चटुलचाटुपदुचारु मुरवैरिणो राधिकामधि वचनजातं । जयति पद्मावतीरमणकविभारती जयदेव भणितमतिशातं ॥ प्रिये० ॥ ८ ॥ परिधर कृतातङ्गे शां त्वया सततं घन स्तनजघनयाकान्ते स्वान्ते परानवकाशिनि । विशति वितनोरन्यो धन्यो न कोऽपि ममान्तरं स्तनभरपरीरम्भारम्भे विधेहि विधेयतां ॥ १० ॥ मुग्धे विधेहि मयि निर्दयदन्तदंश दोर्वलिबन्धनिविडस्तनपीडनानि । चण्डि त्वमेव मुदमञ्चय पञ्चवाण चाण्डालकाण्डदलनादसवः प्रयान्ति ॥ ११ ॥ शशिमुखि तब भाति भङ्गुरभूर् युवजनमोहकरालकालसर्पः । Pigt: red by Google