पृष्ठम्:काव्यसंग्रहः.pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्द । हरति दरतिमिरमतिधोरं । स्फुरदधरसोधवे तय वदमचन्द्रमा रोचयति लोचनचकोरं ॥ प्रिये चारुशीले मुच मयि मानमनिदानं । सपदि मदनानलो दहति मम मानसं देहि मुखकमलमधुपानं भुं ॥ २ ॥ सत्यमेवासि यदि सुदति मयि कोपिनी देहि खरनयनशरघातं । घटय भुजबन्धनं जनय रदखण्डनं येन वा भवति सुखजातं । प्रिये० ॥ ३ ॥ त्वमसि मम भूषणं त्वमसि मम जीवनं त्वमसि मम भवजलधिरलं । भवतु भवतीह मयि सततमनुरोधिनी तच मम हृदयमतियनं ॥ प्रिये० ॥ ४ ॥ नीलनलिनाभमपि तग्वि तव लोचनं धारयति कोक्रनदरूपं । कुसु मशरवाणभावेन यदि रञ्जयसि कृष्णमिदमेतदनुरूपं ॥ प्रिये० ॥ ५ ॥ स्फुरतु कुचकुम्भयोरुपरि मणिमञ्जरी रञ्जयतु तव हृदयदेशं । रसतु रसनापि तव घमजघनमण्डले घोषयतु मन्मथनिदेशं ॥ मिये० ॥ ६ ॥ Digized by Google