पृष्ठम्:काव्यसंग्रहः.pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्द । हरिरूपयातु वदतु बहुमधुरं । किमिति करोषि हृदयमतिविधुरं ॥ माधये ॥ ८॥ श्रीजयदेवभणितमतिललितं । सुखयतु रसिकजनं हरिचरितं ॥ - माधवे० ॥८॥ खिग्धे यत्परुषासि यत्प्रणमति स्तब्धासि यद्रागिणि द्वेषस्थासि यदुन्मुखे विमुखतां यातांसि तस्मिन् प्रिये । " तद्युक्तं विपरीतकारिणि तब श्रीखण्डचर्चा विषं शीतांशुस्तपनो हिमं हुतवहः क्रीडामुदो यातनाः ॥ १०॥ अन्तर्मोहनमौलिधूर्मन चलन्मन्दारविस्रंसन स्तब्धाकर्षणदृष्टिइर्षणमहामन्त्रः कुरङ्गीदृशां । हप्यद्दानवदूयमानदिविषद्दुर्वारदुःखापदां भ्रंशः कंसरिपोर्व्यपोहत स वोऽश्रेयांसि वंशीरवः ॥ ११ ॥ इति श्रीगीतगोविन्दे कलहान्तरितावर्समे मुग्धमुकुन्दो नाम नवमः सर्गः ॥ ८ ॥ चतुरचतुर्भुजः । अचान्तरे मसूणरोषषशामसीम मिःश्वासनिःसहमुखीं सुमुखीमुपेत्य | सब्रोडमीक्षितसखीबदनां दिनान्ते सानन्दगदपदं हरिरित्युवाच ॥ १ ॥ देशवराडीरागाष्टतालाभ्यां गीयते ॥ वदसि यदि किश्चिदपि दन्तरुचिकौमुदी by Google Digized by