पृष्ठम्:काव्यसंग्रहः.pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्द । चरणकमलगलदलक्तसिक्तमिदं तव हृदयमुदारं । दर्शयतीव वहिर्मदनद्रुमनवकिशलयपरिवारं ॥ हरिहरि याहि० ॥ ५॥ दशमपदं भवदधरगतं मम जनयति चेतसि खेद । कथयति कथमधुनापि मया सह तब वपुरेतदभेदं ॥ हरिहरि याहि० ॥ ६ ॥ बहिरिव मलिनतरं तव कृष्ण मनोऽपि भविष्यति नूनं । कथमथ बच्चयसे जनमनुगतमसमशरञ्चरदूनं ॥ हरिहरि याहि० ॥ ७ ॥ भ्रमति भवानबलाकवलाय वनेषु किमच विचित्रं । प्रथयति पूतनिकैष बधूषधनिर्दयबालचरिजं ॥ हरिहरि याहि ० ॥ ८॥ श्रीजयदेवभणितरतिवञ्चितखण्डितयुवतिविलापं । शृणुत सुधामधुरं विबुधा विबुधालयतोऽपि दुरापं ॥ हरिहरि याहि० ॥ ८॥ तवेदं पश्यन्त्याः प्रसरदनुरागं वहिरिव प्रियापादालक्तच्छुरितम रुणच्छायहृदयं । ममाद्य प्रख्यातप्रणयभरभङ्गेन कितव त्वदालोकः शोकादपि किमपि लज्जां जनयति ॥१०॥ प्रातर्नीलमिचोलमच्युतमुरः संवीतपीतांशुकं राधायाचकितं विलोक्य, इसति स्वैरं सखीमण्डले । श्रोडाचन्चलमब्दलं नयनयोराधाय राधानने Digized by Google ।