श्रानचैर्मुकुटेन्द्रनीलमणिभिः सन्दर्शितेन्दीवरं ।
स्वच्छन्दं मकरन्दसुन्दरगखन्मन्दाकिनीमेदुरं
श्रीगोविन्दपदारविन्दमशुभस्कन्दाय वन्दामहे ॥४२॥
इति श्रीगीतगोविन्दे विप्रलब्धावर्णने नागरनारायणो
नाम सप्तमः सर्गः ॥ ७ ॥
विलक्षलश्र्सीपतिः ।
अथ कथमपि यामिनीं विनीय
स्मरशरजर्जरितापि सा प्रभाते ।
अनुनयवचनं वदन्तमग्रे
प्रणतमपि प्रियमाह साभ्यसूयं ॥ १ ॥
भैरवीरागयतितालाम्यां गीयते ॥
रजनिजनितगुरुजागररागकषायितमलसनिमेषं ।
वहति नयनमनुरागमिव स्फुटमुदितरसाभिनिवेशं ॥
हरिहरि याहि माधव याहि केशव मा वद कैतववादं ।
तामनुसर सरसीरुहलोचन या तव हरति विषादं ॥ २॥
कज्जलमलिनविलोचनचुम्बनविरचितनीलिमरूपं ।
दशनवसनमरुणं तव कृष्ण तनोति तनोरनुरूपं ॥
हरिहरि याहि० ॥ ३॥
वपुरनुहरति तव स्मरसङ्गरखरनखरक्षतरेखं ।
मरकतसकलकलितकलधौतलिपेरिव रतिजयलेखं ॥
हरिहरि याहि० ॥ ४॥
ड
पृष्ठम्:काव्यसंग्रहः.pdf/११०
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति
९७
गीतगोविन्द ।