पृष्ठम्:काव्यसंग्रहः.pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्द ।

खै७

श्रानचैर्मुकुटेन्द्रनीलमणिभिः सन्दर्शितेन्दीवरं । स्वच्छन्दं मकरन्दसुन्दरगखन्मन्दाकिनीमेदुरं श्रीगोविन्दपदारविन्दमशुभखन्दाय वन्दामहे ॥४२॥ इति श्रीगीतगोविन्दे विप्रलब्धावर्णने नागरनारायणी नाम सप्तमः सर्गः ॥ ७ ॥ →*$s€

विलक्षलश्र्सीपतिः । अथ कथमपि यामिनीं विनीय

स्मरशरजर्जरितापि सा प्रभाते ।

श्रनुनयवचनं वदन्तमग्रे प्रणतमपि प्रियमाह साभ्यसूयं ॥ १ ॥ भैरवीरागयतितालाम्यां गीयते ॥

रजनिजनितगुरुजागररागकषायितमलसनिमेषं । वहति नयनमनुरागमिव स्फुटमुदितरसाभिनिवेशं ॥ हरिहरि याहि माधव याहि केशव मा वद कैतववादं ।

तामनुसर सरसीरुहलोचन या तव हरति विषादं ॥ २॥ कज्जलमलिनविलोचनचुम्बनविरचितनीलिमरूपं । दशनवसनमरुणं तव कृष्ण तनोति तनोरनुरूपं ॥ हरिहरि याहि० ॥ ३॥

वपुरनुहरति तव सारसङ्गरखरनखरक्षतरेखं । मरकतसकलकलितकलधौतलिपेरिव रतिजयलेखं ॥ हरिहरि याहि० ॥ ४॥ ड /*.