पृष्ठम्:काव्यसंग्रहः.pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोतगोविन्द । कस्लिकसुषं अनयतु परिशमितं ॥ कापि० ॥ २० ॥ विरहपाण्डुमुरारिमुखाम्बुज युतिरयं तिरयन्वपि वेदनां । विधुरतीव तनोति मनोभुवः सुहृदये हृदये मदनव्यथां ॥ २१ ॥ गुर्जरीरागैकतालीताखेन गीयते ॥ समुदितमदने रमणीवदने चुम्बनबलिताधरे | मृगमदतिलकं लिखति समुलकं मृगमिव रजनीकरे ॥ रमते यमुनापुलिनवने । बिजयी मुरारिरघुना ॥ धुं ॥ २२ ॥ घनचयरुचिरे रचयति चिकुरे तरलिततरुसामने । कुरुवककुसुमं चपलासुषमं रतिपतिलगकानने ॥ रमते० ॥ २३ ॥ घटयति सुघने कुचयुगगगने मृगमद्रुचिरूषिते । मणिसरममलं तारकपटलं नखपदशशिभूषिते ॥ रमते ॥ २४ ॥ जितविसशकले मृदुभुजयुगले करतलनलिनीदले । मरकतवलयं मधुकरनिचयं वितरति हिमशीतले ॥ रमते० ॥ २५ ॥ [A] रतिग्रहजघने विपुलापघने मनसिजकनकासने । मणिमयरसनं तोरणहसनं विकिरति कृतबांसने ॥ रमते० ॥ २६ ॥ Digized by Google.