पृष्ठम्:काव्यसंग्रहः.pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्द । तदधरमधुरमधूमि पिवन्तं ॥ नाथ हरे सीदति राधा वासगृहे ॥ धुं ॥ २ ॥ त्वदभिसरणरभसेन वलन्ती । पतति पदानि कियन्ति चलन्ती ॥ नाथ हरे० ॥ ३ ॥ विहितविशदविशकिशलयवलया । जीवति परमिह तव रतिकलया ॥ मुहुरवलोकितमण्डललीला । मधुरिपुरइमिति भावनशीला | त्वरितमुपैति न कथमभिसारं । इरिरिति वदति सखीमनुवारं | सिष्यति चुम्बति जलधरकल्पं । इरिरुपगत इति तिमिरमनल्यं ॥ भवति विलम्बिनि विगलितलज्जा । विलपति रोदिति वासकसज्जा | श्रीजयदेवकवेरिदमुदितं । नाथ हरे ॥४॥ ० नाथ हरे० ॥ ५ ॥ नाथ हरे० ॥ ६ ॥ O नाथ हरे० ॥ ७॥ नाथ हरे० ॥ ८ ॥ रसिकजनं तनुत्तामतिमुदितं ॥ नाथ हरे० ॥ ८ ॥ विपुलपुलकपालिः स्फीतसीत्कारमन्तर् अनितजडिम काकुव्याकुलं ब्याहरन्ती । तव कितव विधायामन्दकन्दर्पचिन्तां रसजलधिनिमग्ना ध्यानलना मुगाक्षी ॥१० अङ्गेधाभरणं करोति बहुशः पचेऽपि सञ्चारिखि प्राप्तं त्वां परिशद्धते वितनुते शय्यां चिरं ध्यायति । Thigh red by Google