इत्याकल्प विकल्पतल्परचनासङ्गल्पलीलाशत
व्यासक्तापि बिना त्वया वरतनुनैषा निशां मेष्यति ॥ ११ ॥
किं विश्राम्यसि कृष्णभोगिभवने भाण्डीरभूमी रुहि
भ्रातर्याहि न दृष्टिगोचरमितः सानन्दनन्दास्पदं ।
राधाया वचनं तदध्वगमुखान्नन्दान्तिके गोपतो
गोविन्दस्य जयन्ति सायमतिथेः सुखिग्धगर्भा गिरः ॥ १२॥
इति श्रीगीतगोविन्दे वासकसज्जावर्सने धृष्टवैकुण्ठो
नाम षष्ठः सर्गः ॥ ६ ॥
नागरनारायणः ।
अचान्तरे च कुलटाकुलवर्त्मपात
सजातपातक इव स्फुटलांछनश्रीः ।
हृन्दावनान्तरमदीपयदंशुजालैर्
दिक्सुन्दरीबदनचन्दनविन्दुरिन्दुः ॥ १ ॥
प्रसरति शशधरबिम्बे विहितविलम्बे च माधये विधुरा ।
विरचितविविधविलापं सा परितापं चकारोचैः ॥ २ ॥
मालवरागयतितालाभ्यां गीयते ॥
कथितसमयेऽपि हरिरहह म ययौ वनं ।
मम विफलमिदममलरूपमपि यौवनं ॥
यामि हे कमिह शरखं ।
सखीजनवचनवञ्चिता ॥ धुं ॥ ३ ॥
यदनुगमनाय निशि गहनमपि शीलितं ।
</poem>}}