पृष्ठम्:काव्यसंग्रहः.pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्द | इत्याकल्प विकल्पतल्परचनासङ्गल्पलीलाशत व्यासक्तापि बिना त्वया वरतनुनैषा निशां मेष्यति ॥ ११ ॥ किं विश्राम्यसि कृष्णभोगिभवने भाण्डीरभूमी रुहि भ्रातर्याहि न दृष्टिगोचरमितः सानन्दनन्दास्पदं । राधाया वचनं तदध्वगमुखान्नन्दान्तिके गोपतो गोविन्दस्य जयन्ति सायमतिथेः सुखिग्धगर्भा गिरः ॥ १२॥ इति श्रीगीतगोविन्दे वासकसज्जावर्सने धृष्टवैकुण्ठो नाम षष्ठः सर्गः ॥ ६ ॥ नागरनारायणः । अचान्तरे च कुलटाकुलवर्त्मपात सजातपातक इव स्फुटलांछनश्रीः । हृन्दावनान्तरमदीपयदंशुजालैर् दिक्सुन्दरीबदनचन्दनविन्दुरिन्दुः ॥ १ ॥ प्रसरति शशधरबिम्बे विहितविलम्बे च माधये विधुरा । विरचितविविधविलापं सा परितापं चकारोचैः ॥ २ ॥ मालवरागयतितालाभ्यां गीयते ॥ कथितसमयेऽपि हरिरहह म ययौ वनं । मम विफलमिदममलरूपमपि यौवनं ॥ यामि हे कमिह शरखं । सखीजनवचनवञ्चिता ॥ धुं ॥ ३ ॥ यदनुगमनाय निशि गहनमपि शीलितं । Digi: zed by Google