पृष्ठम्:काव्यरत्नम्.pdf/९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७५
दशमः सर्गः ।

अपिच सदसि भर्तुः कच्छपाङ्कस्य रेजुः
 सवरुणबहुरूपिण्यन्वहाराधितस्य ।
गणधरपदभाजोऽष्टादशैतच्छताङ्का
 न परमवधिनेत्राः केवलज्ञानिनोऽपि ॥ ५६ ॥

शतविगलितमाना वादिनस्तुर्यबोधा-
 स्त्रिशतगलितसंख्या विक्रियार्द्धि प्रसिद्धाः।
अधिकशतचतुष्काः केवलिभ्यो बभूवु-
 स्त्वधिगतदशपूर्वास्तुर्यबोधत्रिभागाः ।। ५७ ।।

त्रिहतहयसहस्राण्यर्धलक्षं च लक्षं
 त्रिगुणितमपि लक्षं शिक्षकाचार्यकाश्च ।
उपगतगृहमेधाः श्राविकाश्चाप्यसंख्याः
 सुरसुरसुकुमार्यः प्राप्तसङ्ख्या मृगाश्च ।। ५८ ॥

इति विषयमशेषं विश्ववन्द्यो विहृत्य
 त्रिचरणपरिशिष्टं नूनमब्दायुतं सः ।
सुजनहृदयवप्रेषूप्ततत्त्वार्थसस्यः
 प्रविशदमाणिचूलं प्राप सम्मेदशैलम् ॥ ५९ ॥

तत्र स्थित्वैकमासं व्यपगतविहृतिः फाल्गुने कृष्णपक्षे
 द्वादश्यामर्धरात्रौ सदशशतमुनिर्जन्मभे घात्यरातीन् ।
आरूढा योगिधामाद्विचरमसमये सप्ततिं द्विःप्रयुक्तां
 शुक्लध्यानासियष्ट्या स चरमसमये वृत्तसङ्ख्याञ् जधान ॥

ईषत्प्राग्भारसंज्ञेऽष्टमधरणितलेऽमर्त्यलोकप्रमाणे
 सिद्धक्षेत्रे विशुद्धः स जयति तनुपातान्त्यभागे कृतौकाः ।

किञ्चिन्न्यूनान्त्यदेहप्रमितिघननिजाकारभाक् क्षायिकैः स्वैः
 सम्यक्त्वाद्यैरुपेतोऽष्टभिरमितसुखापादकैरस्तकर्मा ॥ ६१ ॥