पृष्ठम्:काव्यरत्नम्.pdf/८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७१
दशमः सर्गः ।

मन्ये सुमेरुविजयार्धनगौ स्म मान-
स्तम्भानुपेत्य भजतश्चतुरोऽपि भीत्या ॥ ३३ ॥

 मज्जत्पुरन्ध्रिकुचकुङ्कुमलालितानि
पर्यन्तखातसलिलानि वितेनुरेषाम् ।
 आलोकनेन सुचिरोपचिताभिमानै-
र्लोकैर्विवान्तदृढमानरसाभिशङ्काम् ॥ ३४ ॥

विश्रामसुन्दरमृदङ्गनिनादगर्जा
 विद्युल्लतायितनिलिम्पनटीसनाथाः ।
नाट्यालया विजितशारदवारिवाहा-
 श्चित्तक्षितौ नवरसान् ववृषुर्जनानाम् ॥ ३५ ॥

सौवर्णधूपघटनिर्गतधूमजालं
 सौरभ्यशालि ददृशे जिनपूजनाय ।
आयज्जनस्य सुचिरं हृदयारविन्द-
 गन्धाधिवासितमिव द्रवदन्धकारम् ॥ ३६ ॥

जैनी सभा जिनपदाम्बुजसेवयैव
 सेत्स्यन्ति मङ्क्षु नव केवललब्धयो वः।
इत्येवमुन्नतनवाङ्गुलिसंज्ञयो(च्चैः ? चे)
 स्तूपच्छलादुपयतां जिनसेवनार्थम् ॥ ३७ ॥

रेजे विशालगणभूतलवेष्टितस्य
 पीठत्रयस्य शिरसि द्विपवैरिपीठम् ।
धर्तुं जिनेश्वरमुपागतभद्रसाल-
 रुद्धत्रिसानुकनकाचलचूलिकेव ॥ ३८॥