पृष्ठम्:काव्यरत्नम्.pdf/७८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
काव्यरले

अल्पं कथञ्चिदपिबत् कृपयावगम्य
 केनाप्युपाहृतमिवोद्धकषायतोयम् ॥ ९ ॥

धात्री दरीमुखगतैर्विपिनस्थलीनां
 व्यादीर्णवेणुगलितैर्मणिभिर्विरेजे ।
मा लोकमित्र ! शिखिनो मम पीडयेति
 दीनं प्रकाशितरदेव दिनाधिपाय ।। १०॥

सन्तापिताः स्वरिपुराहुमहारुषेव
 चण्डांशुना सशराहुकुलाः फणीन्द्राः ।
शङ्कगतान्यशरणा व्यलुठंस्तदीये
 पादाग्र एव कृतवक्रपुटप्रमोकाः ॥ ११ ॥

इत्येष तीव्रतरभावनिपीड्यमान-
 निश्शेषजीवनिवहोऽपि निदाघकालः ।
निन्येऽत्र जीवनिवहै: सुखमात्तयोगः
 पुण्ये जगद्गुरुरवास्थित यत्र शैले ॥ १२ ॥

गम्भीरगर्जितभरादथ कम्पमान-
 चक्राङ्गबालविरहिव्रजमब्दकालः ।
छिद्राविशत्फणि समृत्यमयूरयूथ-
 मुन्मीलदोष्ठपुटचातकमुद्बभूव ॥ १३ ॥

प्राजीजनन् प्रसृतसर्वसमुद्रदेशाः
 शक्रेण सिन्धुजलमग्ननगग्रहाय ।
क्षिप्तोरुजालधिषणां पुनरुत्पतन्तः
 खं नीयमाननगशेमुषिकां नवाब्दाः ॥ १४ ॥