पृष्ठम्:काव्यरत्नम्.pdf/७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५३
सप्थम: सर्ग:

चित्रं कृपालोर्जिनपस्य राज्यं
 यत् प्राप्तबन्धानपि पापदस्यून् ।
बाधां दुरन्तां ददतो नितान्तं
 विमोचयामास जगज्जनानाम् ॥ २७ ॥

जिनेऽवनिं रक्षति सागरान्तां
 नयप्रतापद्वयदीर्घनेत्रे ।
कस्यापि नासीदपमृत्युरीति-
 पीडा च नाल्पापि बभूव लोके ॥ २८ ॥

अधर्मता खड्गिनि तस्य राज्ये
 पयोधरे सत्पथरोध आसीत् ।
वधूकटाक्षे श्रवणातिपातो
 गजे कदाचिद् यदि दानलोपः ॥ २९ ॥

रतिक्रियायां विपरीतवृत्ती
 रतावसाने किल पारवश्यम् ।
बभूव मल्लेषु गदाभिघातो
 भयाकुलत्वं रविचन्द्रयोश्च ॥ ३० ॥

इति निरुपमभक्त्या सानुरक्तयावनम्र-
 त्रिभुवनपरिचूडाचित्ररत्नांशुवर्त्या ।
विलिखितपदपीठे राजपीठे स तस्थौ
 दश दश शतसङ्ख्यान् वत्सरान् पञ्च चैव ॥ ३१ ।

इत्यर्हद्दासकृतौ काव्यरत्ने भगवत्कौमारयौवनदारकर्मसाम्राज्यवर्णनो

   नाम सप्तमः सर्गः ॥