पृष्ठम्:काव्यरत्नम्.pdf/६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५१
सप्तमः सर्गः

विषाग्निशस्त्रादिविघातदूर-
 स्त्रिदोषवैषम्यभवामयारिः ॥ १५ ॥

त्रिंशत्सहस्रीमितवत्सरायुः
 स्फुटातसीसूनसमानवर्णः ।
तदायमुत्सृष्टधनुःशरस्य
 स्मरस्य शङ्कां जनयाम्बभूव ॥ १६ ॥

पित्रापि निर्वर्तितदारकर्मा
 ततः स यूनामधिपोऽपि वृद्धाम् ।
अग्राह्यत स्वामधिराजलक्ष्मीं
 पुरैव राजा जगतां त्रयाणाम् ॥ १७ ॥

पुण्यैकलभ्योऽधिकसौख्यहेतु-
 र्विचित्रवर्णो विशदान्तरङ्गः ।
नृपासनस्थोऽनमयत् त्रिलोकीं
 सदीपवर्तीन् निधिवत् पदाग्रे ॥ १८ ॥

आस्थानलक्ष्म्याः सगुणोरुकान्ति-
 नृपावलीमौक्तिकहारमध्ये ।
स्थितो दधौ नायकरत्नशोभा-
 मसौ महानीलरुचिर्नृपेन्द्रः ॥ १९ ॥

स चन्द्रपाषाणसभापयोधौ
 सचामरोल्लोलतरङ्गमाले ।
शेषोपमस्फाटिकविष्टरस्थः
 श्रिया सनाथो हरिवञ्चकाशे ॥ २० ॥


१. 'न्ति:' क. पाठः-