पृष्ठम्:काव्यरत्नम्.pdf/२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रथमः सर्गः।

भूदेवता यद्विभवं विलोक्य
 भूयोऽवधूतत्रिदिवं दधाति ।
निलीनभृङ्गस्थलपद्मदम्भा-
 न्निष्पन्दताराणि विलोचनानि ॥ ३२ ॥

यस्योर्वरासारगुणस्य मूर्ताः
 पुञ्जा इवाभान्ति समन्ततोऽपि ।
तिलातसीकोद्रवमु[१]द्गमाष-
 गोधूमवल्लक्षवशालिशैलाः ॥ ३३ ॥

यत्रार्तवत्त्वं फलिताटवीषु
 पलाशिताद्रौ कुसुमे परागः ।
निमित्तमात्रे पिशुनत्वमासी-
 न्निरोष्ठ्यकाव्येष्वपवादिता च ॥ ३४ ॥

स्त्रीणां कचे माल्यमुरोजभारे
 श्यामाननत्वं जघने जडत्वम् ।
अपाङ्गता केवलमक्षिसीम्नो-
 र्मध्यप्रदेशेषु च नास्तिवादः ॥ ३५॥

भुजङ्गमेष्वागमवक्रभावो
 भुजङ्गहारेऽप्यजिनानुरागः ।
ध्रुवं प्रदोषानुगमो रजन्याम्
 (दि ? इ)नक्षयः सोऽपि दिना[२]वसाने ॥ ३६ ॥

तत्रास्ति सा राजगृहाभिधाना
 पुरी वनैः पृष्ठगतैरुदग्रै: ।


  1. 'माषमुद्गगो’
  2. 'वा' ख. पाठः