८८ काव्यमाला।
यया मुग्धमृगाः कूटैः पीड्यन्ते तीव्रमार्गणैः ।
आशापाशावलम्बिन्या किं तया लुब्धविद्यया ।। ४७ ॥
परोपतापः क्रियते वैश्यादिकुहकैर्यया ।
यन्त्रतन्त्रानुसारिण्या किं तया व्याजविद्यया ॥ ४८॥
गुरुर्गर्वात्कविर्द्वेषाद्यतिर्भोगपरिग्रहात् ।
नृपः पापाद्विजः क्रोधात्सा विद्या वार्यते यया ॥४९॥
विद्यागुणास्ते विदुषां ये विवेकनिबन्धनम् ।
स्वल्पशिल्पकलातुल्याः शेषा जीवितहेतवः ॥ ५० ॥
वीणेव श्रोत्रहीनस्य लोलाक्षीव विचक्षुषः ।
व्यसोः कुसुममालेव विद्या स्तब्धस्य निष्फला ॥ ५१ ।।
द्वेषदर्पहता विद्या कामक्रोधहता मतिः ।
लोभमोहहता वृत्तिर्येषां तेषां किमायुषा ॥ ५२ ।।
दूरे व्याकरणं कुरुष्व विषमं धातुक्षयक्षोभितं
मीमांसा विरसा न शोषयति किं तर्कैरलं कर्कशैः।
न क्षीबः पतति स्मरभ्रमकरैः किं नव्यकाव्यासवै-
स्तस्मान्नित्यहिताय शान्तमनसां वैराग्यमारोग्यदम् ॥ ५३ ॥
इत्युक्तः सुरराजेन निश्चयान्न चचाल सः ।
अभिमानगृहीतानां दुर्निवारो हि दुर्ग्रहः ॥ ५४ ॥
अथ वृद्धद्विजो भूत्वा सिकतामुष्टिभिः शनैः ।
शक्रः प्रचक्रमे कर्तुं गङ्गायां सेतुबन्धनम् ॥ ५५ ॥
तं दृष्ट्वा निष्फलक्लेशविफलोद्योगनिश्चलम् ।
मुनिसूनुः कृपाविष्टः पप्रच्छाभ्येत्य सस्मितः ॥ ५६ ॥
ब्रह्मन्क एष निर्बन्धस्तव वन्ध्यसमुद्यमे ।
निष्फलं विपुलायासं न प्राज्ञाः कर्म कुर्वते ।। ५७ ॥
१ यत्र मार्गणे' ख. २. अयं श्लोको ग-पुस्तके नास्ति. ३. 'वेश्यादि' क.