पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/९२

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्

३ विचारः] दर्पदलनम् ।

अ‌स्मानकुटिलकल्लोलदोलाविक्षोभितेऽम्भसि ।
हास्यहेतुः कथं सेतुः सिकतामुष्टिभिर्भवेत् ।। ५८ ॥

इत्युक्ते मुनिपुत्रेण ब्राह्मणस्तमभाषत ।
अहो परोपदेशेषु सर्वो भवति पण्डितः ॥ ५९ ।।

अनधीतां बलाद्विद्यां तपसा प्राप्तुमिच्छसि ।
यथा त्वं निष्फलारम्भस्तथाहमपरो जडः ।। ६० ।।

एतद्विजवचः श्रुत्वा यथार्थ स्थगितोत्तरः ।
तथापि दृढसंकल्पः स्वकृत्यान्न चचाल सः ॥ ६१ ।।

अथास्य तीव्रतपसा शक्रः प्रादाद्वरं वरम् ।
सर्वविद्यानिधिर्येन सहसैव बभूव सः ॥ ६२ ।।

प्राप्तविद्यः स सोत्साहस्तूर्णं गत्वा स्वमाश्रमम् ।
निजां तपःफलावाप्तिकथां पित्रे न्यवेदयत् ॥ ६३ ॥

तं मदाक्रान्तमश्रान्तवृत्तसंस्कृतवादिनम् ।
भरद्वाजः प्रमोदेऽपि खेदाकुल इवावदत् ॥ ६४ ॥

पुत्र प्राप्ता त्वया विद्या तपस्तापात्किमुच्यते ।
किं त्वागामिभयादेतन्न युक्तं प्रतिभाति मे ॥ ६५ ।।

इतः समीपे रैभ्यस्य कोपनस्य तपोवनम् ।
विद्यामदान्धौ तत्पुत्रावर्वावलुपरावसू ॥ ६६ ॥

तावश्रान्तश्रुतोन्मादौ त्वं चाभिनवपण्डितः ।
तत्संगमे द्वेषमयः सदा संनिहितः कलिः ॥ ६७ ॥

ग्रीवास्तम्भभृतः परोन्नतिकथामात्रे शिरःशूलिनः
सोद्वेगभ्रमणप्रलापविपुलक्षोभाभिभूतस्थितेः ।
अन्तर्द्वेषविषप्रवेशविषमक्रोधोष्णनिःश्वासिनः
कष्टा नूतनपण्डितस्य विकृतिर्भीमज्वरारम्भभूः ॥ ६८ ॥

१. 'यथात्वं' क-ग. २, 'सदाक्रान्त विधान्तवृत्तसंस्थित' क. ३. 'भाषिणम्' ग.

४. 'नूनमपण्डितस्य' इति शाईवरपद्धतिधृतः पाठः.