पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/८६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

२ विचारः]

भगवानपि साश्चर्यप्रभावादुद्गतं भुवः ।
हैमं कमलमारुह्य तस्थौ पर्यङ्कलीलया ॥ १० ॥

प्रणतं चरणालीनं पूजाव्यग्रकरं पुरः ।
बभाषे भगवान्प्रीतो भिक्षुसंसदि चन्दनम् ।। १०३ ।।

किमयं याचमानोऽपि वराकस्ताडितः क्रुधा ।
कृतं न कृपणे कस्मात्करुणाकोमलं मनः ।। १०४ ।।

दयाः सर्वसत्त्वेषु भवन्ति विमलाशयाः ।
एवंविधानां दुःखानां कारणं कलुषं मनः ॥ १०५ ॥

कृतक्रूरापकारेषु विद्वेषयरुषेष्वपि ।
भवन्ति सन्तः क्लेशोष्मशोषितेषु न कर्कशाः ॥१०६॥

क्लिष्टः कष्टं कदर्योऽयं लोभेनापरजन्मनि ।
अप्रदानोद्यतेनाद्य कायक्लेशेन पीडितः ॥ १०७ ॥

एष नन्दस्तव पिता पूर्णार्थमलसंचयात् ।
आवृतः पापरोगेण चण्डालत्वमुपागतः ॥ १०८॥

जन्मान्तरेऽप्यतोऽन्यस्मिन्रोगयोगान् मुमूर्षणा।
सुवर्णं दत्तमेतेन तेनायं सधनोऽभवत् ।। १०९ ॥

अन्त्यक्लेशदशायां यन्मुमूर्षुः संप्रयच्छति ।
तच्चाभोग्यं भवत्यस्य लोभादन्येषु जन्मसु(?) ।। ११० ॥

दत्तं न वित्तं करुणानिमित्तं लोभप्रवृत्तं कृतमेव चित्तम् ।
यैः संचयोत्साहरसैः प्रनृतं शोचन्ति ते पातकमात्मवृत्तम् ॥१११॥

इत्युक्त्वा भगवान्पुण्यां विदधे धर्मदेशनाम् ।
यया क्लेशप्रहाणार्हमहत्त्वं प्राप चन्दनः ।। ११२ ।।

तस्मान्न दर्पः पुरुषेण कार्यः प्रवर्धमानेन धनोदयेन ।
अदानभोगोपहतं हि वित्तं पुंसां परत्रेह च दुर्निमित्तम् ॥ ११३ ।।

इति श्रीव्यासदासापराख्योमेन्द्रविहिते दर्पदलने धनविचारो द्वितीयः ।

३. 'मुमुक्षुणा' क. ४. 'तदभोग्य क.

१. 'प्रीत्या क. २. 'क्लिष्टकष्टः' ख. ५. 'रसात्' क. ६. 'नीतिपद्धतौ क.