पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

८२

केन निष्करुणेनेदं दर्शितं बत पौरुषम् ।
प्रक्लिन्नकायविकले येनास्मिन्सुभटायितम् ॥ ९० ॥

कायापापमयीं दुःखदशां दृष्ट्वास्य दुःसहाम् ।
वैराग्यावसरे केन क्रौर्यमेवंविधं कृतम् ॥ ९१ ॥

आर्तिमेवंविधामस्य हृदयक्लेदिनीमिमाम् ।
विलोक्य कुर्यात्कः पापं पापं हि पदमापदाम् ॥ ९२ ॥

यद्यनेन महत्पापं न कृतं पूर्वजन्मनि ।
तदुच्यतां स्फुरत्कष्टा दृष्टा कस्येदृशी दशा ।। ९३ ।।

ये दृश्यन्ते विपत्क्लेशविशेषविषमव्यथाः।
त एव गुरवः पापवापस्य (?) करणे नृणाम् ॥ ९४ ॥

करुणार्हेषु शूराणामुपकारिषु वैरिणाम् ।
वञ्चकानामपापेषु पापसंख्यां करोति कः ॥ ९५ ।।

तारं रोदिषि किं पुत्र सहस्वाघातजां रुजम् ।
अशर्मकर्मनिर्माणं मर्मच्छेदि शरीरिणाम् ॥ ९६ ॥

इति तस्यां प्रलापिन्यां प्रेक्षवाप्ते जने जिनः ।
अनाथबन्धुः करुणासिन्धुस्तेनाययौ पथा ॥ ९७ ।।

भवभ्रमासक्तपरिश्रमाणां रागादिदोषैरुपतापितानाम् ।
आश्वासनेनामृतसोदरेण लिम्पन्निव द्यां श्रुतिचन्दनेन ॥ ९८ ॥

दृष्ट्वा तमापद्गतमुग्ररोगभग्नं निमग्नं व्यसने विविग्नम् ।
व्यलम्वतार्द्रः करुणारसेन तत्तापशान्त्यै भगवाञ्जिनेन्द्रः ॥ ९९ ॥

तत्संनिधानेन मुहूर्तमात्रं स निर्व्यथः स्वास्थ्यमिवाससाद ।
निहन्ति पापं कुशलं प्रसूते संदर्शनं सत्त्वहिताशयानाम् ।। १००॥

ज्ञात्वाथ चन्दनः प्राप्तं भगवन्तं तथागतम् ।
विकसत्कुसुमस्मेरां पूजामादाय निर्ययौ ॥ १०१ ॥

१. 'तच ग. २. 'पापवापकलकरे' क. ३. 'अपकारिषु' ख. ४. 'जिनः स्वयम्'

ग. ५. 'द्युतिसोदरेण ग. ६. 'भिच-विलमम् ग. ७. 'मयाशयानाम्' ख-ग.