पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/८०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

२ विचारः]

धनेन दर्पः को नाम यत्क्षणेन विनश्यति ।
रक्ष्यमाणं व्ययेनैव भक्ष्यमाणमुपप्लवैः ।। ३७ ॥

विचार्यमाणस्तत्त्वेन दैवाधीनतया नृणाम् ।
न कस्याञ्चिदवस्थायां धनलोभः प्रशस्यते ॥ ३८॥

कलौ काले खले मित्रे पुत्रे दुर्व्यसनान्विते ।
तस्करेषु प्रवृद्धेषु लुब्धे राज्ञि धनेन किम् ॥ ३९ ॥

ऋणिकैः कलहैर्नित्यमच्छिन्नगणनागतेः।
दानद्विषोऽनपत्यस्य मन्दामेश्च धनेन किम् ।। ४० ॥

सहसासादितार्थस्य राजद्रोहादिपातकैः ।
भयादव्ययशीलस्य शल्येनेव धनेन किम् ॥ ४१॥

घोरप्रतिग्रहग्रामप्रस्तोदग्रगुणौजसः ।
तद्विभागानभिज्ञस्य धूर्ताप्तस्य धनेन किम् ॥ ४२ ॥

रात्रिसेवावसन्नस्य शीतवातातपस्थितः ।
प्रभुदृष्टिप्रहृष्टस्य कष्टार्हस्य धनेन किम् ॥ ४३ ॥

प्रभूतलामलोमेन प्रयुक्तार्थस्य सर्वतः ।
भूर्जदृष्टेन तुष्टस्य नष्टबुद्धेर्धनेन किम् ॥ ४४ ॥

मलशीलस्य वणिजत्कृतस्य जुगुप्सया ।
लसुनस्याशुचेः पाकगन्धेनेव धनेन किम् ॥ ४५ ॥

कौड़ितेनाध्यलब्धेन भोगाहें नवयौवने।
जराजीर्णशरीरस्य गन्धेनेव धनेन किम् ॥ ४६॥

प्रवज्यात्यक्तगेहस्य जनगौरवपूजया ।
धनसंघटितार्थस्य बन्धेनेव धनेन किम् ॥ ४७ ॥

१. 'भक्ष्यमाणं व्ययेनैव रक्ष्यमाणं' क-ख. २ अर्य श्लोको ग-पुस्तके नास्ति.

३. 'प्रशाम्यति' क. ४. 'पिशुनेषु' क. ५. अयं श्लोकः क-पुस्तके नास्ति. ६. 'क- लहः' ग. ७. अयं श्लोकः क-पुस्तके नाखि. ८. 'वसक्तस्य' क-ग. ९. इतः प्रति छोकपञ्चकंग-पुस्तके नास्ति, गणनापञ्चमाने विलोकितेनायेनेति भावः, १०. 'मानशी- लस्य क. ११. 'सीत्कृतस्य' क. १२. 'पूज्यया' क. १३. 'बन्धनेन' ख.