पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला।

तृप्तिदं दर्शनेनापि जन्तोर्जीवितजीवितनम् ।
द्रविणं येन रक्षन्ति खकायं भक्षयन्ति ते ॥ २५ ॥

जीवन्नप्यक्रियो निःस्वः शवोऽप्यर्थेन सक्रियः ।।
दारिद्र्यं मरणं लोके धनमायुः शरीरिणाम् ॥ २६॥

एतदेवार्थसामर्थ्यं प्रत्यक्षेणोपलक्ष्यते ।
यत्स्कन्धबन्धे जीवद्भिः शवः शिबिकयोह्यते ।। २७ ॥

प्रयच्छसि किमर्थिभ्यस्त्वमन्नं क्लेशसंचितम् ।
दीयते यकिल प्रास्त्यै तत्प्राप्तं किं न रक्ष्यते ॥ २८ ॥

पुत्रदारादिसंबन्धः पुंसां धननिबन्धनः ।
क्षीणात्पुत्राः पलायन्ते दारा गच्छन्ति चान्यतः ॥ २९ ॥

पण्डिताः कवयः शूराः कलावन्तस्तपस्विनः ।
वैद्यस्येव सवित्तस्य वीक्षन्ते मुखमातुराः ॥ ३० ॥

इति तस्य वचः श्रुत्वा कृपणस्यार्थनिष्कृपम् ।
सा तमूचे समुचितं सत्त्वस्याभिजनस्य च ॥ ३१॥

सन्तः कुर्वन्ति यत्नेन धर्मस्यार्थे धनार्जनम् ।
धर्माचारविहीनानां द्रविणं मलसंचयः ॥ ३२ ॥

यत्करोत्यरुचिं क्लेशं तृष्णां मोहं प्रजागरम् ।
न तद्धनं कदर्याणां हृदयव्याधिरेव तत् ॥ ३३ ॥

वर्धते यो धनव्याधिः सुखभोगवियोगकृत् ।
तस्याशु शमनं पथ्यं राजवैद्यचिकित्सया ॥ ३४ ॥

लोभान्नाभूद्गृहे यस्य कदाचित्कश्चिदुत्सवः ।
नृत्यन्ति पटहैस्तस्य निधने धनभागिनः ॥ ३५ ॥

कणाचामतुषाङ्गारान्यत्नेन परिरक्षसि ।
मूषकापहृतं कोषे रत्नराशिं न पश्यसि ॥ ३६ ॥

१. एतत्पद्यद्वयं ग-पुस्तके नास्ति. २. क्षीणाः' ख-ग. ३. 'पल्यः' ख. ४. अयं

श्लोको ग-पुस्तके नास्ति. ५, 'स' क. ६. 'गमन' ख. ७. अयं श्लोको ग-पुस्तके नास्ति.