पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

न मृद्री माणिक्यावलिरपि सरोजं न विरज-
श्चिरं के केङ्केल्लेस्तरुणरुचयः पल्लवचयाः ।
किमु स्यादेतस्याश्चरणसदृशं पद्मवसते-
रिति प्रेक्षे यावत्तदनुफलनं तावदमृशम् ॥ १८ ॥

त्वमेव त्वन्मूर्ति मृदुभिरभिनिर्माय जैनकैः
कलाकारैर्हीरैर्मूखजटितमाणिक्यशकलैः ।
पदाङ्गुल्यावल्योर्नखदशकमस्याः सृजसि चे-
त्तदोदन्वत्कन्ये तुलितमिव मन्ये तव नखम् ॥ १९ ॥

चतुर्णां वर्णानां वरदमिदमेव स्मृतमहो
चतुर्णां वेदानां विशदमिदमेव स्तुतिपदम् ।
चतुर्णामर्थानां प्रकटमिदमेवार्पकमिति
ध्रुवं ब्रूते राकाविधुमुखि पताका तव पदे ॥ २० ॥

उपासाभिः कश्चित्कलयतु विलासाय तनिमा-
दिमाः सिद्धीः सिद्धीभवतु मितबुद्धेरपि पुरः ।
अनङ्के सुण्यङ्कस्तव स पदपङ्केरुहतले
समाजः सिद्धीनां तव चरण एवेति वदति ॥ २१ ॥

विलोक्य त्रैलोक्यस्थितललितमाणिक्यमखिलं
परिश्रान्तो मातर्मुनिशरणयोस्त्वञ्चरणयोः ।
अपश्यन्सादृश्यं क्वचिदपि न दृश्यं मम तदा
तयोरेवान्योन्यं समजनि समत्वव्यवसितिः ॥ २२ ॥

स्थलीं चुम्बच्चम्पाचटुलमुकुलश्रेणियुगली-
मुपान्ते निष्कान्ता निभृतविदलद्दाडिमदलात् ।
भजेद्बीजश्रेणी यदि रसमुखी तत्प्रियसखी
भवेदुर्वीजाते तव पदसरोजाङ्गुलिततिः ॥ २३ ॥

१. अशोकस्य, २. तदीयप्रतिबिम्बमेव. ३. शरीरारम्भकैः, ४. निर्मलाकारैः.

५. सामुनिकप्रसिद्धश्चिह विशेषः. ६. अणिमाथाः, ७. हे निर्दोषे. ८. अङ्कुशचिह्नम् . १. रक्तवर्णा.