पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

पदाम्भोजे भोजे¹ तब कुलिशचिह्नस्य मिषतः²
सदोंकारद्वन्द्वं कमलदलमृद्वङ्गि निवसत् ।
श्रुतीनामाद्यन्तस्थितमभिमुखं वाङ्मयमुखं
किमासां सर्वासामिह वदति तात्पर्यमिति नो ॥ २४ ॥

दशेमाः प्रेमाप्त्यै त्वदमलपदाग्रे श्रुतिशिखा
निमग्ना जानीमः किल नखशिखापङ्क्तिमिषतः।
नकारोऽयं काकुं ध्वनयति खकारस्तु खगुणं⁴
शिखाशब्दः शीर्षं कविरिति परंतु स्मरतु मे ॥ २५ ॥

समाजैः सम्राजां स्मृतमजरसां सर्वभुवना-
म्बुजानां साम्राज्यं भजदुपनतच्छत्रललितम् ।
अलंकुर्यात्तन्मे हृदयकमलं तेऽङ्घ्रिकमले
ललामं5 यत्कामं कमलनयनार्धाङ्गि कमलम्6 ॥ २६॥

सकम्पा शम्पा न त्यजति जलदालीजवनिकां
न संध्यान्तर्धानादुचितमपरं ध्यायति पुनः ।
विमुञ्चन्त्यारुण्यं तरणिकिरणास्तूर्णमन्घे
तवालोक्य श्लोक्याश्चरणनखचिन्तामणिरुचः ॥ २७ ॥

सदाशास्ते यस्त्वत्परिचरणशीलाचरणतः7
प्रहारं प्राग्भारं कमपि कुसुमानां कलयितुम् ।
अशोकस्य स्तोकोद्गतकिसलयं तस्य विदुषां
रसज्ञा सर्वज्ञे कथयतु कथं त्वत्पदसमम् ॥ २८॥

सुधोदग्रोदञ्चद्रससुरतरोश्चित्किसलये8
सुमस्तोमे प्रेमात्मनि यदि कलङ्केन विकलाः।
कलाः प्रालेयांशोः किल मधुलिहस्त्वत्पदपुन-
भवानां दृष्टान्तं दधतु वसुधानन्दिनि तदा ॥ २९ ॥

१. रुक्मिणीरूपेण भोजवंश्ये. २. व्याजेन. ३. दशोपनिषदः. ४. शब्दम्. वेदमिति, यावत्. खशिखा वेदशीर्षाण्युपनिषदः किं न, अपि तु सन्खेव. ५. चिह्नम्, ६. छत्रा- कारचिवसहित कमलाकारं चिह्नम्. ५. जन्मान्तरे लदाराधनेन लब्धसौन्दर्यादिगुणा युवतिस्तस्याश्चरणतः पादेन, ८. चिदात्मकदलविशिष्टे.