पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तदानीं जानीमो जनकतनयापन्नखशिखा-
स्तदालीमिर्लूनाः किल तिलकयन्ति स्म निटिले ॥ ११ ॥

विराजन्ते चिन्तामणिसदसि लक्ष्मीपदनख-
प्रतिच्छायाच्छायापतय इव दर्शेन्दुसहिताः ।
प्रजल्पेदल्पज्ञस्तव कविरिमामस्मदुपमां
तदा मन्तुः क्षन्तुं समुचित इति क्षोणिलुठिताः ॥ १२ ॥

सकारुण्यारुण्या नखमणय एते चरणयो-
र्हरन्तोऽपि ध्वान्तं न खमणय इत्थं व्यवसिताः।
पुरस्तादेतेषामनिमिषहगम्भोजपरिष-
न्निमेषादुन्मेषं कथमितरथा मुञ्चति रमे ॥ १३ ॥

चकोराणां प्राणान्यदवति नवेन्दुच्छविमतिं
वितन्वन्कोकानामपि निशि नवीनातपधियम् ।
मिलिन्दानां हेमाम्बुजघनरजःप्रेम पदयो-
र्नखानामारुण्यं तव जननि केषां न शरणम् ॥ १४ ॥

उदञ्चन्मन्दारस्खलितकुरुविन्दाङ्कितमुखै-
रपूर्वस्वर्वापीकनकनलिनापीडितदलैः ।
सवर्णा सौवर्णाम्बुजहृदि निषण्णां कथममी
वयं विद्मः पद्मानुपमपदपद्माङ्गुलिततिम् ॥ १५ ॥

मृणालश्रेणीयं म्रदिममहिमालोचनपथे
शिलाशीला लीलानलिनमैलिनः कण्टकसमम् ।
नवोन्नीतं पङ्कीभवति नवनीतं तदतुलं
परामर्शादर्शे प्रतिफलतु लक्ष्मीपदतलम् ।। १६ ॥

नखश्रेणीमेणीदृश उपनिषद्विश्रुतिजुष-
स्तव क्षोणीशोणीकरणकुशलामप्यविकलाः ।
यदेता लाक्षामिः स्मरजननि साक्षात्पिदधते
तदुत्प्रेक्षालक्ष्यीकृतनयनदोषापहृतये ॥ १७ ॥

१. सूर्याः. २. भ्रमरस्य.