पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। लीला कापि न शीलिताथ न मनाग्विाजते विभ्रमो नो किंचित्किलकिञ्चितं परिचितं वेला विलासस्य का। उल्लासेन कुशेशयस्य कलिकां संभाविता भाविनो रोलम्बा इव निर्विलम्बितमिमां चुम्बन्ति यूनां दृशः ॥ ९८ ॥ बलादाली कालीयकमुपद्धाति स्तनभुवि प्रभूतायामम्भोरुहमुकुलदम्भोलि भिदि। स्वरूपेणाजेयः स किल वनितायाः स्तनभुवा सरोजाताभाया हृदयदयिते नखपनयः (१) ।। ९९ ॥ आलिङ्गन्नतिसौरभानवयवान्बिम्बाधरं पाटलं चुम्बन्नाकलयन्पयोधरतटीं शृण्वन्रुतं हांसकम् । पश्यन्वानिशमायतां हशमुपस्कुवल्लवङ्गीरसं बालायां सकलर्तुसंगमसुखं धन्यः परं मन्यते ॥ १०० ।। अहानि प्रोल्लासं दधुरतिघना नन्वपधना बभूवुः सर्वाशा हिमकरकराघ्यायमिलिताः । गजश्रीबन्धुः श्रवणमतिचक्राम नितरां भवत्यामासन्नः कुसुमसमयो वामनयने ।। १०१।। अर्धेन्दुः क्षतमर्दितस्तमकृत प्रस्थानकस्थासकं विश्लिष्टावरणं रदत्रणगणैः साबाधबिम्बाधरम् । खेदाम्भःपृषताभिमृष्टतिलकं खस्तोरुयुग्मं जय- त्यामीलन्नयनाञ्चलं परिगलद्धम्मिल्लकं तद्वपुः ॥ १०२ ॥ विद्वद्वन्दकमौलिभूषणलसत्पाण्डित्यलीलाञ्चित- श्रीमच्छ्रीधरभट्टसूनुरमलप्रज्ञाधराराधितः । भट्टश्रीयुतकृष्णवल्लभसुधीर्वर्षे शरेष्वष्टभू (१८५५)- माने काव्यविभूषणाभिधमिदं काव्यं व्यधादद्भुतम् ॥ १०३ ॥ इति श्रीकृष्णवल्लभकवि विरचितं काव्यभूषणशतकम् ।