पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यभूषणशतकम्। ४५

कृत्वा शान्तनवावगाहरभसं प्राग्ज्योतिषे भावतो
दत्त्वा निग्रहमोजसां द्विजपतेराधाय हानिं गुरोः ।
अत्युद्दामपृषत्कवृष्टिनिवहैराधेय भूयो मदं
निर्मायापिहितं पयोदविजयो जेता न शल्यं कुतः ।। ९२ ।।
दैवात्सत्यपि विप्रिये तव समालोके न यामि प्रिये
तस्यामेव न लजसे तब कथं कामं तदा वर्तयन् ।
किं कुमो हतवेधसा त्वयि परा सीमा गुणानां परं
मत्सख्यामधिका न्यधीयत तया सार्धं विशेषज्ञता ॥ ९३ ॥
मलयजरजोजालास्फालाविलो गमितोऽनिलो-
ऽनुमतसुमनोगुम्फाः शेफालिका विनिभालिताः ।
वृतमपि घनस्तोमैव्योमेक्षितं विषमच्छद-
द्रुमकुसुममप्यालिख्यन्तां किमालि मनोरथाः ॥ ९४ ॥
बध्नाति गन्धफलिकोत्कलिकोपबन्धं
शेफालिकां शबलयन्ति सखि द्विरेफाः ।
उल्लाघयत्यतिभिदाधनतां निदाघ-
श्चन्द्रानने रचय तन्मिलने रुचं द्राक् ॥ ९५ ॥
नैवातप्यत किं चतुर्भिरनलै|न्तद्विषत्पञ्चमै-
न सान्द्रीयत वृष्टिभिः किमु कृशश्चान्द्रायणैः किं न सः।
यस्मिन्ससितमाननं विदधती दृग्मङ्गिभङ्गीकृतं
श्रोत्रोत्तंससहस्रपत्रमहसं व्यापारयस्यादरात् ॥ ९६ ।।
उद्यत्तारुण्यवारुण्यतिशयितमदोच्छ्रासचारुण्यतीव
प्रोदञ्चत्पञ्चवाणप्रचुररुचिरहक्चञ्चरीकप्रपञ्चे।
मन्दश्रीश्चन्द्रमास्ते सति सुतनु मुखे प्रोच्छृसत्तन्द्रमास्ते
हीनं शोभाभिरम्भोरुहमपि रजनौ नैति रम्भोरु हासम् ॥ ९७ ।।


१. चम्पककलिका.