काव्यमाला। चित्रं प्रास्थत भाग्यवैभवभुवो भालान्न हृद्वल्लभा द्व्यत्यासं रतिराससाद सुदृशो बाबैब नाभ्यन्तरी ।। ८५ ॥ सद्वक्षोजा मनोजो वरतनुरतनुर्मीनदृङ्मीनकेतु- र्जन्मस्थानं रतीनां रतिपतिरसमा जिह्मगाः पञ्चबाणाः । रम्भोरू रम्भयोरुमधुरमधुमुवं विनती तद्वयस्यो वामाक्षि त्वं च कामोऽपि च कथय कथं सर्वदैवानुकूलौ ॥८६॥ नीतं प्रागितरेतराभिमततामुद्दिश्य कुञ्जस्थलं संप्राप्यावसरं चिरेण रजनावागच्छतोः कामिनोः । आशङ्काशतशालिनोविधिवशान्मध्येऽध्वनि श्लिष्यतो- र्जातोऽद्रुम एव शैलगमनोद्युक्तस्य मध्वागमः ॥ ८७ मध्येकञ्चलिकं कर प्रियतमे विन्यस्यति त्रस्यति ग्रन्थि तस्य विधित्सति श्लथमथ व्यायन्तुमायस्यति । वक्षो स्पृशतीवव्यवनम(१)त्युन्मुद्रति द्राग्दृशौ सुभ्रूर्मुद्रयति क्षतं वितरति व्यङ्गेऽभितः कण्टकान् ॥ ८८ ॥ अन्वञ्चद्विटपाय सज्जदसितप्रावारकोपान्तकं रोलम्रनिचुम्ब्धमानसिकतं कस्तूरिकासौरभात् । प्रश्यकौसुमदामशङ्खवलयच्छेदैरदो मिश्रितं श्रेयःपुञ्जविजृम्मितस्य गमकं यूनोनिकुञ्जस्थलम् ॥ ८९ ॥ आसन्ना नन्दिनी वा पतिरतिगृहभूरस्तु दैनंदिनी वा निर्वाहं मैहिकं वा परिहरतु महो मैहिकाभावनं वा। घूत्कारानम्वुकाकाः सहचरि परितस्तन्वतां जम्बुका वा साक्ष्ये मे पद्मिनी वा भवतु कुमुदिनी संभ्रमादगि नीतिम् ।। ९०॥ संरब्धं बहु भालयेन मरुता प्रोद्घाटितं पाटवं भूयः पाटलया कदम्बकुसुमैराडम्बरथुम्बितः । मध्येपद्मवनं मरालयुवभिर्नक्तं दिवं क्रन्दितं नैवं सत्यपि किं नृशंसहृदये योगं प्रति लेहवान् ।। ९१॥ १. 'अर्के चेन्मधु विन्देत किमर्थ पर्वतं व्रजेत्. २. मलयसंबन्धिना.