पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यभूषणशतकम् । आयातेऽर्थिनि गोत्रभिद्यभिमते कर्णोऽमुचत्कुण्डलं कामास्त्रं किल भूरिलोचनयुगं तस्मिन्समासज्जताम् । नन्वेतत्कुरुनायकस्य हृदयं तस्मात्समाधीयतां संभूतस्तपसोऽत्र यो रतिरसो मापार्थतो हीयताम् ॥ ७९ ॥ एकेयं रसना न शब्दमभज जेऽनुवार परा नेत्रं किंचिदनूरुसङ्गमभवज्जातोरुसङ्गं परम् । रागः कश्चन निर्जगाम हृदयात्तस्थौ तथैवापरो बाह्ये सत्पुलकोऽन्तरे विपुलको जातोऽङ्कभूसंभ्रमः ।। ८० ॥ पश्यामि द्विजराजमश्रुतिमितं खर्भानुमास्थान्वितं चन्द्रं प्रत्यरुचिं चकोरमलिनैर्माणिक्यमुम्लानकम् । चन्द्रं हस्तगमालिराशिविहितामोदं सुमेरुं पुनः कौसुम्भावरणेन हीनमधुना किं स्यादिति त्रस्यते ।। ८१ ।। यत्तित्याजयिषांबभूव सहसा विन्ध्याचलो बन्धुना पद्मानां विहितं परिक्रमममुं तत्सत्यताशङ्कया। यत्रासीत्रपया मलीमसमुखो मेरुस्तिरश्चीनता तत्कालीनमवैमि तं तव कुचावामेचकचुकौ (!) ।। ८२ ॥ उल्लासोऽधरपल्लवस्य तनुते पर्याप्तमस्याः स्मिते विन्यासो नयनाञ्चलस्य गमयत्युत्साहवत्साहसम् । रत्यागारपथामुखीनगमकं वैजात्यकक्षावधिः पर्यके पदरोपणं पुनरपर्यन्ता विपर्यस्तता ॥ ८३ ॥ प्रिये तस्या नेदीयसि गुपरागोऽप्यसुकरो भुजाबीरुद्वन्धं नयति वलयादप्यतिनयम् । प्रसह्य प्रावारं हरति रुचिरप्यङ्गचिरो रहस्याविख्याता विलिखति न सख्यामपि पदम् ॥ ८४ ।। बन्धं त्यक्तवती विशेषकबरी श्यामा स्वयं न त्वियं हारात्प्रस्थिरनायको न तु ततोऽप्येषा विहारस्थितात् । ५५.गु०