पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

सविस्तारं ताराललितमवलग्नेऽतितनुता
मृगाक्षि त्वं श्यामा मनसिजनिदाघस्य घटसे ।। ७२ ॥
अयं जयति खञ्जनोपमदृशः समासञ्जय-
न्मृगीमदनिषद्वरः स्तनभुवोऽभितः श्यामताम् ।
स्फुरत्कनककुण्डलनममयादहंपूर्विका-
वशाधुगपदापतन्निव मधुब्रतानां ब्रजः ॥ ७३ ॥
सामस्त्येन विधीयमानघुसृणालेपे भवत्याः स्तने
तद्रूपेण चकास्ति चूचुकगतं रूपं पराभूतवत् ।
कस्तूरीभिरुपस्कृते तु सहसा विस्तारिणा तद्भुवा
रूपेणैव तदीयरूपमुदितव्यत्यासमाभासते ॥ ७४ ॥
संयोगे यत्र साध्ये सति बहुगणनं द्रव्यमेवास्ति पक्षो
बाहुकिं(?)प्रमाया घटितविषयतासाधनं कंचिदर्थम् ।
किं चासौजन्यरूपं गमयति सरसंवृत्त्यसामान्यधर्मः
सा व्याप्तिप्रक्रियेव श्रमयति हृदयं भूयसा वारसुभ्रूः ।। ७५ ।।
यन्नीहारकलङ्कितोत्पलदलावस्थानदुःस्से दशौ
श्वासो वेपथुमातनोति कुचयोरन्तनिरुद्धो बलात् ।
यत्स्तम्बेरममृद्यमाननलिनीतुल्या दशेयं तनो-
स्तकल्याणि किमीरयाणि हृदयं कान्तः समानान्तवान् ।। ७६ ॥
खाभोगेन मलीमसत्दमतुलं कृत्वा विहाय स्तनौ
विसस्तापघने रसत्यपि मनाक्श्रोत्रप्रियंभावुकम् ।
म्लानेथं रजसापि संस्कृतिमनापन्ना तनुस्तावकी
बाले नोज्झति बालवायजपल्लेखेव सोल्लासताम् ।। ७७ ।।
किमञ्जनशलाकया जितवलाकया मौक्तिक-
स्रजाप्यलमथानया रशनया फलं किं भवेत् ।
रुचां न पदमास्पदं किमु विना तुलाकोटिना
मधूनि मधुरान्तरैः (१) कथमुपक्रियेरन्प्रिये ।। ७८ ॥

२. कस्तूरीकर्दमः. ३. वैदूर्यशलाकेव. १. रात्रिः