पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यभूषणशतकम् । आकाशमानसविगाहनराजहंसं नारीजनग्रहिलतानलिनीमहेभम् । आघ्रायमानरतिनायकसंप्रदाय- दीक्षागुरुं दृशि निवेशय सुन्दरीन्दुम् ॥ ६६ ॥ कुसुभविशिखपाजापत्यकतुर्युवतीजना- न्तरकरणभूनिनन्थेविमोचनकार्मणम् । नवरतिकलानाट्यप्रस्तावनाकुसुमाञ्जलिः कुमुदसुहृदो देवस्यासावुदेति रुचां चयः ॥ ६७ ॥ सर्वखं भुवनस्य विभ्रमततेरुज्जीवनं भावना- बल्लीनां प्रमदावनं निधुवनक्रीडासमालम्बनम् । आयुष्यं सवनं स्मरस्य ललितस्योद्भावनं कामिना- मेकं संवननं दृशां विजयते वामझुवो यौवनम् ॥ ६८ ॥ किमप्याविर्भूते वयसि परिचुम्बत्यवयवा- प्रियाया राजीवस्तबककमनीयं कुचयुगम् । उपन्यस्तः सज्जन्नुपरि परिकर्मप्रकरणे मुखावच्छेदेन स्पृशति सुकृती नायककरः ॥ ६९ ॥ आरव्वा किमु केतकीकिसलयैर्माला किमायामिनी- कर्पूरस्य परम्परा मलयजक्षोदस्य लेखाथवा । धारा वैबुधसैन्धवी नु विसयत्याहो हिमानीमयी वृष्टिः पञ्चशरस्य तावकहशोर्मझी कथं गीयते ॥ ७० ॥ ज्योत्स्लाभिः सप्यमानाः सुरभिरजनयः कोकिलानां कलापः केलीकोलाहलेनाकुलयति ककुभो जाग्रदेवास्त्यनङ्गः । इन्भङ्गानुग्रहाय स्पृह्यति दयितः काकुवश्या वयस्याः सध्रीचीने नवीने वयसि नयसि किं त्वं वृथा वासराणि ॥ ७१।। श्लथीभूतं नैव स्तनमयमिदं पद्ममुकुलं दशौ मुग्धे रोमावलितिमिरवीथी प्रसरति ।