पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

पूरो वैवस्वतस्य स्वसुरुरसिशयः सर्वदैव स्वतः स्या-
प्राप्तामोदा बरीवर्त्यपि च यदि तनूसीम्नि गोदावरी सा ।
संजज्ञे भीष्मसूर्यद्यवयवनिचये ग्रीष्मसूर्यप्रभास्त-
त्तापाः संतानवन्तस्तव परविरहो यात्यलं तानवं तत् ।। ५९ ॥
मिनत्ति जलनीलिका नवपिपीलिकापङ्क्ति-
द्विभाति हिमवालुकाप्यहिमवालकायोगवत् ।
करालति मृणालकं बहलजालहालाहलं
निशाकरकरावली वहति हा पिशाचीदशाम् ।। ६० ।।
अभिनववधूरीषन्मात्रं हृदाविवरीषया
परिशिश्लिक्षा यावत्यावारकं समुदीक्षते ।
सरभसतरं तावत्तिर्यङ्मवर्त्नयन्त्रण-
द्रुतविदलितग्रन्थौ कूपसके विजितं मया ॥ ६१ ॥
विदूरे शिश्निक्षा शयननिविविक्षा न तनुते
विहारस्यागाराज्जिगमिषति कान्तेऽपि मिषति ।
करस्पर्शेऽपीन्दोरिव मम निकोचं रचयति
प्रसूनाकाराणामियमवयवानां कमलिनी ।। ६२ ।।
संप्रेरिता कुसुमसायकवनवेन
बीडेन नूतनवधूर्विनिवर्त्यमाना ।
अन्योन्यसंमुखविसृत्वरतुल्यवेग-
वातद्वयान्तरगता नलिनीव भाति ॥ ६३ ॥
करयोः कलहायमानयोरुभयोरेव पयोधरोपरि ।
वलयावलयो बलाबलं बहुवेलं पतयालदो जगुः ॥ ६४ ॥
व्यापारप्रचयः पयोधरतिरोधानानुकूलो मृगी-
नेत्रायाः करयोयं (!) प्रियकरं रोद्धुं न पर्याप्तिमान् ।
इच्छां खस्य फलोपधानमवधीकृत्याप्यनाखादित-
स्वात्मानं गमयन्ब्रवीति मदनापेक्षां ह्रियो हीनताम् ॥६५॥

१. कर्पूरम्.