पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यभूषणशतकम् । सद्योऽकम्पत कोकयोयुगमभूद्विस्फारभृत्तारको भेजे का कुमुदावली न हसितं........ रागस्यातिशयोऽन्तरुच्छ्वसितता म्लानिर्बहिर्मात्रभूः संभोगे सति वल्लभस्य युगपहिम्बाधरे त्वय्यपि । मानस्यातिशयोदये कठिनता वक्षोजयो रम्भया सादृश्यं पुनरूरुसीम्नि सरसीभावोऽभिनाभि स्थितः ॥ ५३ ।। भूमीभृत्सुतनुः स्तनस्तव वरारोहा त्वमुद्रीयसे मध्यं ते गगनं कलावति महामानं पुनस्ते मनः । रम्भारूपभृदूरुरिन्दुवदने सारालकेशोद्भव- प्रीतिर्मूर्धनि भाति साश्रमलिकं कान्ते नुतोयान्वयः (१) ॥ ५४॥ आभोगः स्तनयोर्महत्यतिमहान्मुक्तास्रजं भासुरो माहात्म्यावहितप्रभूतसुमनोबाणोऽपि तेऽन्तः स्थितः । भालं खच्छविरोचनं बलिरसावप्यास्त एवोदरे रोम्णां विक्रियया युवत्वभवया विन्ध्यावली वर्तते ॥ ५५ ॥ प्रतीतेयं नामीसरसि तव शैवाललतिका बलग्ने त्वाकाशे नवजलदलेखा विलसति । स्तने मेरौ जम्बूरसलहरिका रोमवितति- र्झरी कालिन्द्यास्तु स्फुरति मधुरायां त्वयि भृशम् ॥ ५६ ॥ स्तनः प्रभवितस्तया यदि वितस्तया रेवया मुखं विहितसेवयाप्यबहिरेव यात्यन्वयम् । तनौ भवति गोदया सह मिलत्तरङ्गोदया सदारुणसुतासुदारुणतया रुणद्धि ज्वरम् ॥ ५७ ।। अलिन्दे चेत्कालिन्द्यवसरयुता द्वारि सरयूः कपोलान्तर्गोलाप्युरसि सुरसिन्धुः स्फुरति चेत् । वितस्ता विन्यस्ता हृदि कुचभरे वा विनिहिता भवेद्रेवा जह्याद्रुजमियमसह्यामपि तदा ॥ ५८ ॥